पञ्जरस्थसिंहन्याय

विकिसूक्तिः तः

पञ्जरे बद्धः सिंहः किमपि कर्तु न शक्नोति तथैव स्नेहतन्तुना सन्तानरज्जुना च बद्धः मनुष्यः परवशो भूत्वा स्वतन्त्रविचारं कर्तुं न शक्नोति इति अस्य न्यायस्य भावः ।

यथा – स्नेहतन्तुमयैः पाशैः बद्धः सन्तानरज्जुभिः ।

पञ्जरस्थो यथा सिंहः समर्थोऽपि वशीकश्तः ॥ सा. ९३७

"https://sa.wikiquote.org/w/index.php?title=पञ्जरस्थसिंहन्याय&oldid=10317" इत्यस्माद् प्रतिप्राप्तम्