सामग्री पर जाएँ

पत्रं पुष्पं फलं तोयं...

विकिसूक्तिः तः

सुभाषितम्

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥

भगवद्गीता ९/२६

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati ।
tadahaṃ bhaktyupahṛtam aśrāmi prayatātmanaḥ ॥

पदच्छेदः

पत्रं पुष्पं फलं तोयं यः मे भक्त्या प्रयच्छति तत् अहं भक्त्युपहृतम् अश्रामि प्रयतात्मनः ॥


तात्पर्यम्

य: मह्यं पत्रं पुष्पं फलं जलं च भक्त्या ददाति अहं भक्तियुक्तं तत् सर्वं स्वीकरोमि।


आङ्ग्लार्थः

Whoever offers to Me with true devotion a leaf or a flower or a fruit or water, which can be easily obtained, I accept it.