पदस्थितस्य पद्मस्य...

विकिसूक्तिः तः

पदस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ।
पदच्युतस्य तस्यैव क्लेशदाहकरावुभौ ॥

कमलपुष्पं स्वस्थाने यदा भवेत् तदा वरुणः सूर्यश्च तस्य मित्रे भवतः । किन्तु कमलं यदि अधः पतति तर्हि तौ शोषयतः ।

"https://sa.wikiquote.org/w/index.php?title=पदस्थितस्य_पद्मस्य...&oldid=15934" इत्यस्माद् प्रतिप्राप्तम्