पराचः कामान् अनुयन्ति...

विकिसूक्तिः तः

बाला एवैते

पराचः कामान् अनुयन्ति बालाः । ते मृत्योर्यन्ति विततस्य पाशम् ॥ - काठकोपनिषत् २-१-२

बहिर्मुखान् एव भोगान् अनुसृत्य गच्छन्तो बालकाः तत्र विततस्य मृत्योः पाशं यन्ति ।

स्वस्मिन्नेव विद्यमानं स्वाभाविकमानन्दम् अजानन् सर्वो मनुष्यः बाह्यविषयेष्वेव निरतः ।
बाह्यविषयप्रवृत्तिर्हि मानवानां सहजो दोषः । अस्मात् सुखं लभ्येत, तस्माद् आनन्दः प्राप्येत
इति भ्रान्त्या सर्वेऽपि मानवाः सर्वदापि विषयसङ्ग्रहे विषयभोगेषु च निरताः । ईदृशान् अविवेकिनः
अयं मन्त्रः “बालाः” इति व्यपदिशति । बालाः नाम अज्ञाः, अविवेकिनः, मन्दाः, मूढाः, मूर्खाः इत्यर्थः ॥

मात्रा दत्तानि खाद्यानि मधुरभक्ष्यादीनि तिरस्कृत्य, गृहाद् बहिरागत्य, पथिषु धावित्वा तत्र
वाहनादिषु संलग्नाः अपघातहताः सन्तः यथा बालाः दुःखभाजो भवन्ति एवमेव वयोवृद्धा अपि
बालस्वभावा एव अज्ञाः बाह्यान् कामान् अनुवर्तमानाः तत्र आनन्दम् अलब्ध्वा दुःखमेव अनुभवन्ति ।
आत्माज्ञानिनो बाला एव ॥