पर्जन्यन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

वृष्टिः सर्वत्र एकरीत्या एव भवति । जलम् अधिकम् अल्पं वा स्यात् वृष्टिर्भवति चेत् समानैव भवति । एवं सर्वत्र समानरुपेणा यस्य अन्वयो भवति तस्य विषये अयं न्यायः प्रवर्तते । यथा :

1. कृतकानि खल्वपि शास्त्रं पर्जन्यवत् । तद्यथा पर्जन्यो यावदनं च कूर्पां च सर्वत्र अभिवर्षति ॥ पतञ्जलिमहाभाष्ये १-२-९, ६-१-१८९ 2. प्रकृत्यादिविभागकल्पनावत्सुलक्ष्येषु सामान्यविशेषरुपाणां लक्षणानां पर्जन्यवत् सकृदेव प्रवृत्तौ बहूनां शब्दानाम् अनुशासनोपलंभाष्य सर्वदर्शनसंग्रहेपाणिनीये 3. शङ्कराचार्याणां व्याख्या एवमस्ति –वृष्टिः सर्वत्र समा भवति परन्तु उत्तमक्षेत्रे वर्तमानानाम् बीजानां तया वृष्टया अङ्कुरोत्पत्तिर्भवति ऊषरदेशे वर्तमानानां न । ईश्वरकृपा अपि समाना भवति तथापि उत्तमकर्मणां नीचकर्मणां कारणेन फले वैषम्यं भवति । - ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः । यथा हि पर्जन्यो ब्रीहियवादिसृष्टौ साधारणकारणं भवति । ब्रीहियवादिवैषम्ये तु तत्तद्बीजगतानि एव असाधारणानि समर्थानि कारणानि भवन्ति । एवम् ईश्वरो देवमनुष्यादिसृष्टौ साधारणं कारणं भवति । देवमनुष्यादिवैषम्ये

तु तत्तज्जीवगतानि एव असाधारणानि कर्माणि कारणानि भवन्ति । (शाङ्करभाष्ये – ब्रह्मसूत्र २-१-३४) (पर्जन्यवत् लक्षणप्रवृत्तिः – परिभाषेन्दुशेखर -१२०)

"https://sa.wikiquote.org/w/index.php?title=पर्जन्यन्यायः&oldid=10363" इत्यस्माद् प्रतिप्राप्तम्