पर्वताग्रे रथो याति...

विकिसूक्तिः तः

पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः ।
चलते वायुवेगेन पदमेकं न गच्छति ॥

पर्वतस्य उपरि रथः सञ्चरति । रथस्य सारथिः भूमौ तिष्ठति । रथः वायुवेगेन चलति ।
किन्तु एकमपि पदम् अग्रे न गच्छति । तर्हि किमेतत् ?

उत्तरम्

कुलालचक्रदण्डः
"https://sa.wikiquote.org/w/index.php?title=पर्वताग्रे_रथो_याति...&oldid=1660" इत्यस्माद् प्रतिप्राप्तम्