पर्वताधित्यकान्यायः

विकिसूक्तिः तः

उपत्यकाऽद्रेरासन्ना भूमिरुर्ध्वमधित्यका इति अमरकोषानुसारम् अधित्यकाशब्देनैव पर्वतोर्ध्वभूमिः इति ज्ञायते । पर्वतशब्दस्य तथा आवश्यकता नास्ति । क्वचित् पुनरुक्तेरपि प्रयोजनं भवति । तुल्यौ – करकङ्णन्यायः, गजघटान्यायः

पर्वतोपत्यका नाम पर्वतसमीपवर्तिनी भूमिः । एवमेव पर्वतोपत्यकान्यायोऽपि निष्पन्नः ।

"https://sa.wikiquote.org/w/index.php?title=पर्वताधित्यकान्यायः&oldid=10377" इत्यस्माद् प्रतिप्राप्तम्