पश्य पश्य रे आकाशे...

विकिसूक्तिः तः

पश्य पश्य रे आकाशे...


पश्य पश्य रे आकाशे
डयते डयते महद्विमानम् ।
झुञ्ऽऽऽऽऽऽऽऽऽऽऽऽऽ
नादं करोति विपुलम् ॥

नीलं नीलं नीलं गगनं
हरितं हरितं हरितं तृणम् ।
तुङ्गं तुङ्गं तुङ्गं शिखरं
करोति रे पारम् ॥

गरुडाकारं बहुरमणीयं
लुक् लुक् लुक् लुक् लुक् दीपकसहितम् ।
यातायातं वायुसमेतं
करोति रे नादम् ॥




"https://sa.wikiquote.org/w/index.php?title=पश्य_पश्य_रे_आकाशे...&oldid=17723" इत्यस्माद् प्रतिप्राप्तम्