पादपानां भयं वातात्...

विकिसूक्तिः तः

सुभाषितम्

पादपानां भयं वातात् पद्मानां शिशिराद् भयम् ।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम् ॥ सु.भा. - सामान्यनीतिः (१६८/४१४)




तात्पर्यम्

दृढमूलाः अपि वृक्षाः वेगयुक्तस्य वायोः कारणतः पतनं प्राप्तुम् अर्हन्ति । अतः वृक्षाणां वायुतः भयम् (अपायः) अस्ति । यदि हिमपातः भवति तर्हि कमलं नष्टं भविष्यति । शिशिरऋतौ हिमपातः भवति खलु ? अतः कमलानि शिशिरऋतुतः भीतानि भवन्ति । पूर्वं पर्वतानां पक्षाः आसन् इति, इन्द्रः तान् पक्षान् कर्तितवान् इति च कथा श्रूयते । अतः वज्रायुधतः पर्वतानां भीतिः । सज्जनाः यद्यपि यस्य कस्यापि अहितं न आचरन्ति, तथापि परपीडनस्वभावयुक्ताः दुष्टाः विना कारणम् अपि सज्जनान् पीडयितुम् अर्हन्ति । अतः सज्जनाः दुष्टजनेभ्यः भीताः भवन्ति । एवं लोके एकैकस्यापि एकैकविधं भयं भवति एव ।

"https://sa.wikiquote.org/w/index.php?title=पादपानां_भयं_वातात्...&oldid=14945" इत्यस्माद् प्रतिप्राप्तम्