पादप्रसारिकान्यायः

विकिसूक्तिः तः

पादप्रसारणस्य कृते पर्याप्तम् एवं स्थालं दीयते चेदपि धूर्तः शयनं कर्तुम् आवश्यकं स्थानं स्वयम् आक्रम्य तिष्ठति । एवं धूर्तजनस्य व्यवहारं सूचयितुम् अस्य प्रयोगो भवति ।

अस्य न्यायस्य अपरः प्रयोगो भवति । कियदपि अयशः प्राप्तं चेदपि कश्चन स्वध्येयम् अवि स्मृत्य प्रयत्नरतो भवति । केचन प्रयत्नम् अकृत्वा पादप्रसारिकान्यायेन स्वपन्ति ।

यथा- १. एतत्सर्वमनालोच्य कृत्वा पादप्रसारिकाम् ।

विवेकचक्षुः संमील्य स्वपन्ति ननु जन्तवः ॥

ततो विषादमापन्नः सर्वकर्मपराङ्मुखः ।

स्थितोऽहं मौनमालंब्य कृत्वा पादप्रसारिकाम् ॥

-उपमितिभवप्रपञ्चकथा ७९८, ९०७ न्यायमञ्जरी पृष्ठे ११३, १२१, ५०४, ३. खण्डनखण्डाखाद्यम् पृष्ठे ३१.

"https://sa.wikiquote.org/w/index.php?title=पादप्रसारिकान्यायः&oldid=10396" इत्यस्माद् प्रतिप्राप्तम्