पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (१३ शरबन्धः)

विकिसूक्तिः तः
Jump to navigation Jump to search

१३. सराघवा श्रुतौ दृष्टा पादुका सनृपासना ।
सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना ॥

Sharabandaha first variety

पदविभागः[सम्पाद्यताम्]

स-राघवा, श्रुतौ, दृष्टा, पादुका, स-नृप-आसना, स-लाघवा, गतौ, श्लिष्टा, स्वादुः,
मे, सत्-उपासना ।

Sharabandaha second variety

प्रतिपदार्थः[सम्पाद्यताम्]

सराघवा – सर्वदा रामेण सहिता, श्रुतौ – वेदेषु, दृष्टा – अन्तरार्थत्वेन दृष्टा,
सनृपासना – राजासनं गता, गतौ – सञ्चारकालेषु, सलाघवा – श्रमं विना त्वरितगत्या
गन्तुं समर्था, श्लिष्टा – सदा द्वितीयया (पादुकया) संश्लिष्टा, सदुपासना – सद्भिः
उपास्यमाना, पादुका, मे – मम, स्वादुः – रुचिकरा अस्ति / भवतु ।

तात्पर्यम्[सम्पाद्यताम्]

पूर्वस्मिन् श्लोके कविना उक्तं ‘परमोत्कृष्टा पादुका मम आराधनाय सुलभसिद्धा’ इति ।
तावता न तृप्तिः तस्य । तस्याः महिमा च ईदृशः अस्ति । सा सर्वासु अवस्थासु परमान्तरङ्गभूता
भगवता सहैव तिष्ठति । वेदप्रतिपाद्या सा; भगवतः प्रतिनिधिर्भूत्वा राजासने स्थितवती;
तस्य च सञ्चारकालेषु परमं साधनम्; द्वे अपि पादुके तथा श्लिष्टे यथा न कोपि तयोः मैत्रीं
भेत्तुम् अर्हति; अपि च पादुका सदा कार्यसमर्था च; सद्भिश्च परमोपायतया उपास्या ।
तस्याः एवं महिमानं ज्ञात्वा ‘मम तद्विषयिणी परमा भक्तिः भवतु’ इति अस्मिन् श्लोके
प्रार्थयते कविः ।

विशेषः[सम्पाद्यताम्]

अस्य शब्दचित्रस्य शरबन्धः इति नाम । श्लोकस्य अक्षराणि शरबन्धे विलिख्य गोमूत्रिकारीत्या
पठनीयानि । उत्तरार्धे ‘सराघवा’ इति स्थाने ‘सलाघवा’ इति पठनीयम् । रलयोः अभेदत्वात् ।