सामग्री पर जाएँ

पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२२ सर्वतोभद्रम्)

विकिसूक्तिः तः

 

२२. जयामपापामयाजया महे दुदुहे मया ।
महेशकाकाशहेमपादुकाममकादुपा ॥

पदविभागः

[सम्पाद्यताम्]

जय-आम- पा, अप-आमया, अज-या, महे, दुदुहे मया,
मह-ईशक-अक-अश-हेम-पादुका, अ-ममक-अद्-उ-पा /( अ-मम-क-अद्-उ-पा) ।

प्रतिपदार्थः

[सम्पाद्यताम्]

जयामपा – इन्द्रियजयादिसिद्धिम् अप्राप्तवताम् अपक्वमतीनां मुमुक्षूणां पात्री,
अपामया – आश्रितानाम् आधिव्याधीन् दूरीकुर्वती,
अममकादुपा – ममकाररहितानां गोष्ठ्यां स्थितं रुद्रं पात्री /
ममकाररहितस्य कशब्दवाच्यस्य ब्रह्मणः शिरः कर्तयित्वा उपद्रुतवतः
अतश्च ब्रह्महत्यां प्राप्तवतः रुद्रस्य पात्री,
महेशकाकाशहेमपादुका – महैश्वर्यवताम् इन्द्रादीनां असुखं अश्नतः भगवतः हिरण्मयी पादुका,
महे – उत्सवेषु, अजया - अजं भगवन्तं प्राप्तवती,
मया दुदुहे (तस्याः सकाशात् मम इष्टार्थाः प्रार्थ्य प्राप्यन्ते इत्यर्थः) ।

तात्पर्यम्

[सम्पाद्यताम्]

ब्रह्मेन्द्ररुद्रादयः भगवन्तम् आश्रिताः । तेषामपि ऐश्वर्यकारणेन यद् असुखं भवति
तत् निवार्य पुनरपि सुखं प्रापयति रङ्गनाथेन सह तस्य हेमपादुका ।
अपि च ये मुमुक्षवः इन्द्रियजयम् अप्राप्य भगवदनुभवं न प्राप्तवन्तः
तेषां प्रतिबन्धकपापानि परिहृत्य सिद्धिपर्यन्तं तान् उपकृत्य रक्षति एषा ।
एवम्भूता एषा आत्मक्षेमदात्री, संसारे तापत्रयनिवारिणी, महासङ्कटहारिणी च ।
ये च मन्दबुद्धयः प्रारब्धवशात् भगवन्तं न उपगच्छन्ति महोत्सवेषु यदा रङगराजः वीथीषु सञ्चरति
तदा तेन सह पादुका तानपि स्वयमन्विष्य अनुगृह्णाति ।
 

अस्य शब्दचित्रस्य ‘सर्वतोभद्रम्’ इति नाम ।
अस्मिन् श्लोके एकैकोऽपि पादः अनुलोमक्रमेण प्रतिलोमक्रमेण वा पठ्यते चेत् एकरूपः एव ।
पूर्वतनश्लोकस्य इव अस्यापि अक्षराणि प्रतिपङ्क्ति अष्टकोष्ठयुते चतुरश्रबन्धे क्रमेण व्युत्क्रमेण च लिख्यन्ते ।
अक्षराणि वामतो दक्षिणम्, अधस्ताद् ऊर्ध्वं, तद्विपरीतं वा,
प्रदक्षिणगत्या वा अप्रदक्षिणगत्या पठ्यन्ते चेदपि श्लोकः लभ्यते ।
एवं च चित्रे श्लोकस्य एकैकोऽपि पादः अष्टभिः क्रमैः पठितुं शक्यः । (चित्रं पश्यत) ।