पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२५)

विकिसूक्तिः तः
Jump to navigation Jump to search

 
२५. ततातत्तातितत्तेता ताततीतेतितातितुत् ।
तत्तत्तत्ताततितता ततेतातेततातुता ॥

पदविभागः[सम्पाद्यताम्]

तत-अतत्ता, अतितत्ता-इता, तातति, इत-ईतिता-अतितुत्, तत्तत्-तत्ता-तति-तता,
तता/आतता, इ-तात-इत,तातुता ।

प्रतिपदार्थः[सम्पाद्यताम्]

ततातत्ता - विस्तृता सर्वदा सञ्चरणस्वभावा च, अतितत्ता-इता - अतिक्रान्ततच्छब्दवाच्यब्रह्मतया प्राप्या च,
इत-ईतिता-अतितुत् – ईतिबाधायुताम् अवस्थां समूलं नाशयन्ती, तत्तत्-तत्ता-तति-तता – तत्तद्वस्तुनः
स्वभावावलिं स्वशीकृत्य विस्तृता, तता / आतता – विस्तृता / वीणादिवाद्यानि प्राप्ता, इ-तात-इत,तातुता –
मन्मथस्य पित्रा (विष्णुना) अधिगता पादुका, तातति – जनकायते । (अत्र ‘तातुता’ इति शब्दस्य ‘पादुका’
इत्यर्थः । यतोहि, अस्मिन् श्लोके तकारः एक एव व्यञ्जनम् अतः पादुकाशब्दस्य स्वरान् क्रमेण तकारेण योजयित्वा
प्राप्तः शब्दः अयम् । कविभिः अयं क्रमः अनुस्रियते इति स्मर्तव्यम् ।)

तात्पर्यम्[सम्पाद्यताम्]

रङ्गनाथस्य पादुका लोकरक्षणार्थं वत्सला धेनुरिव सर्वदा सर्वत्र सञ्चरणस्वभावा जीवराशीनां पुरुषकारभूता ।
ते यथा पादुकाम् आश्रयेयुः तथा करोति सैव । एतस्मात् कारणात् वश्यतायां सा प्राप्यभूतपरब्रह्मणोऽपि
अधिका इति मन्यते कविः । तथैव च आश्रितानाम् इह अतिवृष्ट्यनावृष्ट्यादिभिः यानि दुःखानि जायन्ते
तानि समूलं निवारयति । लोके यानि यानि वस्तूनि सन्ति तेषां सर्वेषां स्वरूपस्वभावादिकं तस्याः अधीनम् ।
जीवराशिभिः अभिलषिताः सर्वे पुरुषार्थाः पादुकारूपाः एव । वीणानाद इव मधुरद्वनियुता । यद्वा वीणादिवाद्यैः
गातुं शक्यः श्लोकसमूहः अस्याः विषये लभ्यते । मन्मथस्य पिता विष्णुः । स च ‘साक्षान्मन्मथमन्मथः’ इति
ख्यातः । सोऽपि एनाम् अधिगच्छति इति यत् तदस्याः सौन्दर्यद्योतकम् । एवम् आश्रितानां विषये मातापितृवत्
वत्सला पादुका इति भावः ।

विशेषः[सम्पाद्यताम्]

अस्मिन् श्लोके एकमेव व्यञ्जनं प्रयुक्तम् । एकस्य तकारस्य एव प्रयोगः दृश्यते ।