पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२८ पादभागचतुरावृत्तियमकम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

 
२८. दत्तकेलिं जगत्कल्पनानाटिकारङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा ।
तादृशे गाधिपुत्राध्वरे त्वां विनाऽपादुका पादुका पादुका पादुका ॥

पदविभागः[सम्पाद्यताम्]

दत्तकेलिं, जगत्-कल्पना-नाटिका-रङ्गिणा, अरङ्गिणा, रङ्गिणा, रङ्गिणा, तादृशे, गाधि-पुत्र-अध्वरे, त्वां, विना,
अपात्, उ, का, पादुका, पादु, क-आपादुका ।

प्रतिपदार्थः[सम्पाद्यताम्]

पादु! हे पादुके! जगत्-कल्पना-नाटिका-रङ्गिणा – जगत्सृष्टिनाटकरङ्गवता भगवता, अरङ्गिणा – स्वं तु नर्तयन्तं
विना स्थितेन, रङ्गिणा – (रङ्गनाथरूपिणा) श्रीरामेण, रङ्गिणा – रङ्गनाथेन, दत्तकेलिं – दत्तसञ्चाररूपकेलिमतीं
(अत्र तृतीयासमासः चतुर्थीसमासो वा यथा – दत्ता केलिः यया सा / दत्ता केलिः यस्यै सा ।) त्वां विना, का उ
पादुका – कैव पादुका, कापादुका? – सुखस्य साधयित्री अथवा त्वदपेक्षया स्वल्पकार्यापादिका कैव पादुका तादृशे –
विघ्नैः पुनःपुनः प्रतिहन्यमाने तादृशे, गाधि-पुत्र-अध्वरे – गाधिपुत्रस्य विश्वामित्रस्य यज्ञे, अपात् ? - रक्षणम् करोति स्म?

तात्पर्यम्[सम्पाद्यताम्]

श्रीरामो भूत्वा विश्वामित्रस्य यज्ञसंरक्षणं कृतवान् प्रभुः । स एव इदानीं रङ्गनाथरूपेण तिष्ठति । अतः
रामपादुकैव रङ्गनाथपादुका इति ऐक्यबुद्ध्या कविः अत्र तया कृतमुपकारं स्मरन् तां स्तौति । रङ्गनाथः
जगत्सृष्टिरूपनाटिकां गच्छति । (‘रगि गतौ’ इति धातोः निष्पन्नः ‘रङ्गिन्’शब्दः अत्र । रङ्गितुं शीलम्
अस्य इति रङ्गी, तेन रङ्गिणा इत्यर्थः ।) जगत्कल्पनानाटिकां करोति इति अनुक्त्वा गच्छति इति
कथने स्वारस्यं तावत् – भगवान् चेतनाचेतनात्मकजगद्रूपेण स्वं परिणमयति । अर्थात् सूक्ष्मचेतनाचेतनविशिष्टं
ब्रह्म स्थूलचेतनाचेतनविशिष्टत्वेन परिणामं प्राप्नोति न तु नूतनतया किमपि सृजति । जगत् नर्तयन् रङ्गी
अयम् । किन्तु एनं न कोऽपि नर्तयितुं समर्थः । अतः अयम् अरङ्गी । श्रीरामावतारं कृतवानयं रङ्गनाथः
विश्वामित्रस्य यज्ञसंरक्षणार्थं गच्छन् सञ्चाररूपकेलिं पादुकायै दत्तवान् । पादुका च रामचन्द्रस्य सहाया
भूत्वा राक्षसान् निहत्य यजमानं विश्वामित्रं, यागोपकरणानि, तथैव तत्र स्थितान् अध्वर्युप्रभृतीन् अन्यांश्च
संरक्ष्य यागस्य पूर्तिं कृतवती । एवं प्रभावशालिनीं पादुकां विहाय का वा तादृशं कार्यं कर्तुं प्रभवति स्म?

विशेषः[सम्पाद्यताम्]

‘पादभागचतुरावृत्तियमकम्’ इति शब्दचित्रम् अत्र । श्लोकस्य द्वितीयचतुर्थपादयोः पादभागभूतयोः ‘रङ्गिणा’ ‘पादुका’
इति शब्दयोः चतुर्वारम् आवृत्तिः दृश्यते । प्रतिपादं द्वादशाक्षरयुते स्रग्विणीवृत्ते निबद्धः अयं श्लोकः ।