पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२९ षोडशावृत्तियमकम्)

विकिसूक्तिः तः

 
२९. २९. पादपापादपापादपापादपा पादपापादपापादपाऽपादपा ।
पादपापादपापादपापादपापादपापादपापादऽऽपापादपा ॥

पदविभागः[सम्पाद्यताम्]

पादपापादपापादपापादपा (1), पादपा (2), पादपापादपा (3), अपादपा (4), ।
पादपापादपापादपा पादपापात् (5), अपापादपापा (6), आदपा पादपा (7) ॥
(1) पादप-अपादप-आपाद-पाप-अत् अपा,
(2) पादपा,
(3) पाद-पा-अ-पादपा,
(4) अपाद-पा
(5) पाद-पापात्-अ-पापात्-अ-पापात् अपापात्
(6) अ-पापा-द-पापा
(7) आद- पा- पाद- पा

प्रतिपदार्थः[सम्पाद्यताम्]

(3) पाद-पा-अ-पादपा – पदाधिकारिणाम् (पदमेषामस्तीति पादाः- ब्रह्मरुद्रादिपदवीषु स्थिताः देवाः, तेषाम्) इन्द्रादिदेवानां पाता अकारवाच्यः यः सर्वेश्वरः तस्य पादुका (1) पादप-अपादप-आपाद-पाप-अत्-अपा – पादैः ये पिबन्ति ते पादपाः स्थावराः, अपादपाः जङ्गमाः च इति एतान् प्राप्तवन्ति पापानि अत्ति यत् जलं (अभिषेकजलं) तद्वती, (2) पाद-पा – भगवतः विभूतौ पादभूतम् (चतुर्भागभूतम्) इदं प्रकृतिमण्डलं रक्षन्ती, (4) अपाद-पा – तथैव च त्रिपाद्विभूतिं श्रीवैकुण्ठलोकं च रक्षन्ती, (5) पाद-पापात्-अ-पापात्-अ-पापात्-अपापात् – रक्षणयोग्यानां मातापितॄणां (‘पाद’शब्दस्य रक्षणमित्यर्थः अत्र, रक्षणयोग्याः पादाः, तेषाम्) ये रक्षन्ति तेषां विषये न कदापि अशुभसङ्कल्पवती तथैव च तान् न रक्षन्ति तेषां विषये च सर्वदा अशुभसङ्कल्पम् अतती/ प्राप्नुवन्ती च, (6) अ-पापा-द-पापा – अकारवाच्यं भगवन्तमेव सदा पिबतः (पानार्थकः पाधातुरत्र, तस्य द्विरुक्तिः पौनःपुन्ये) मनांसि पावयतः शमदमादिगुणान् रक्षन्ती च, (7) आद- पा- पाद-पा-आश्रितविरोधिनः शत्रून् किरणैः (पादैः) शोषयन्ती च (अस्ति) ।

तात्पर्यम्[सम्पाद्यताम्]

पूर्वतनश्लोके पादुकायाः रक्षणसामर्थ्यं प्रशस्तम् कविना । तादृशं सामर्थ्यं तस्याः कथम् उपपन्नम् इति इदानीं विमृश्यते । भगवान् जगत् सृष्ट्वा ब्रह्मादीन् देवान् तत्तत्पदे नियोज्य तेषां द्वारा जगतः रक्षणं च करोति । मनुष्याः यज्ञादिभिः देवान् आराधयन्ति ते च देवाः प्रसन्नाः भूत्वा तेषाम् इष्टमर्थं पूरयन्ति । एवं परस्परं भावयद्भिः जगद्व्यापारचक्रं चालयति भगवान् । तस्य भगवतः पादौ निरन्तरं शुश्रूषमाणा पादुका तयैव शुश्रूषया भगवत्सकाशे सर्वम् अर्थं गृहीतवती । तस्यैव भगवतः अनुग्रहेण अस्याः ईदृशः प्रभावः इति कविः अभिप्रैति । भगवत्पादारविन्दसमाश्रयणेनैव स्वस्य अभिषेकजलेन स्वाश्रितानां पापनिवारणे समर्था पादुका इति कविः अत्र वर्णयति । ‘मातृदेवो भव’, ‘पितृदेवो भव’, ‘आचार्यदेवो भव’, ‘अतिथिदेवो भव’ इति वेदविधिं ये अनुसरन्ति तेषां विषये अनुग्रहपरा, तद्विपरीतानां विषये च निग्रहपरा च भवति पादुका । ये एनां ध्यायन्ति ते यथा शमदमादिगुणसम्पन्नाः भूत्वा मनसः कल्मषापनोदनेन ध्यानपूर्तिम् अनुभवपूर्तिं च प्राप्नुयुः तथा अनुगृण्हाति तान् । स्वतेजसैव केवलम् आश्रितानां विरोधिनः सर्वान् दूरीकरोति इति भावः ।

विशेषः[सम्पाद्यताम्]

१. षोडशावृत्तियमकमिति शब्दचित्रमत्र । ‘पादपा’ इति शब्दस्य षोडशकृत्वः आवृत्तिः अस्ति श्लोके ।
२. अकारः आकारश्चेति द्वावेव स्वरौ, पकारः दकारश्च द्वे एव व्यञ्जने ।
३. श्लोके श्लोकार्धे श्लोकपादे च अनुलोमप्रतिलोमयमकम् ।
४. षोडशदलम्, अष्टदलम्, चतुर्दलम् वा - षोडशदलपद्मबन्धे अष्टदलपद्मबन्धे, चतुर्दलपद्मबन्धे च श्लोकः निवेशयितुं शक्यः। (३ चित्राणि पश्यत)