पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३० अष्टदलपद्मबन्धः)
३०. साकेतत्राणवेलाजनितततनिजप्राङ्कणश्रीप्रभासा
साभा प्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा ।
सालादिच्छेदतिग्माहवरुरुरुवहह्रीकरस्यामरासा-
ऽसा रामस्याङ्घ्रिमभ्याजति न न नतिजस्थूलमुत्रातके सा ॥
पदविभागः
[सम्पाद्यताम्]साकेत-त्राण-वेला-जनित-तत-निज-प्राङ्कण-श्री-प्रभासा, स-आभा, प्रश्रीः, अटव्याम्, इयम्, अमम-यमि-व्यापद्-उच्छेदि-लासा,
साला(रा)दि-च्छेद-तिग्म-आहव-रु-रुरु-वह-ह्री-करस्य, आम-रास-असा, रामस्य, अङ्घ्रिम्, अभ्याजति, न, न, नति-ज-स्थूलम्,
उत्रातके, सा ॥
प्रतिपदार्थः
[सम्पाद्यताम्]साकेत-त्राण-वेला-जनित-तत-निज-प्राङ्कण-श्री-प्रभासा – अयोध्यायाः रक्षणसमये विस्तृते (अनेकैः विद्वद्भिः पूर्णे)
स्वस्य सभामण्डपे ज्ञानसम्पदा यद्वा स्वर्णरत्नादिभिः जातया प्रभया युक्ता, साभा – कान्तिमती, प्रश्रीः – उत्कृष्टां
वेदसम्पदं बिभ्रती अर्थात् सकलानां वेदानां सामान्यज्ञानवती सूक्ष्मज्ञानवती च, अटव्याम् – ताटकावने अथवा
संसारकान्तारे, अमम-यमि-व्यापद्-उच्छेदि-लासा – अहङ्कारममकाररहितानां यमिनां मुनीनां आपदः अथवा
अन्तश्शत्रूणां बहिश्शत्रूणांश्च समूलच्छेदनरूपक्रीडावती, आम-रास-असा – बुद्धिमान्द्येन जातान् अपक्वान् शब्दान्
दूरीकुर्वती अर्थात् दुर्बुद्धिं तज्जातानि विवेकरहितानि वचनानि च निरस्य सद्बुद्धिं सम्यग्वचनानि च अनुगृह्णती,
सेयं – रामरूपिणः अस्य रङ्गनाथस्य पादुका, साला(रा- अत्र रस्य स्थाने लकारः रलयोरभेदः इति अङ्गीकृतत्वात्
वन्धसौकर्याय प्रयुक्तः)दि-च्छेद - बलादेः (आदिपदेन परशुरामस्य धनुषोऽपि ग्रहणम्) छेदने, तिग्म-आहव-रु-रुरु-वह-ह्री-करस्य
रामस्य – तीक्ष्णेन युद्धे कृतेन शब्देन (हुङ्कारेण) सारङ्गधरं परमशिवं लज्जितं विदधानस्य रामस्य, उत्त्रातके – अनुक्रोशेन
विशेषेण रक्षणीयानां नतानां विषये, नति-ज-स्थूलम् – नमनेन जातं स्थौल्यं प्राप्तम्, अङ्घ्रिम् – पादं, नाभ्याजति न –
(रक्षणार्थं) न प्रेषयतीति न ।
तात्पर्यम्
[सम्पाद्यताम्]इतः पूर्वं २४ तमे (कोपोद्दीपकपापेऽपि……) श्लोके भगवतः परमं निग्रहं प्राप्तवतोऽपि पापकृतो विषये शरणं गतोऽयमिति
नतिरूपेण व्याजेन केवलं तं यथा भगवान् रक्षेत् तथा पुरुषकारं करोति पादुका इत्युक्तम् । शरणागतरक्षणव्रती रामः वने
शरणागतान् काकासुरसुग्रीवविभीषणादीन् अरक्षत् । तस्मिन् कार्ये तं भरतमुखेन प्रेरयित्री स्वयं सिंहासने स्थिता पादुका
एव । (किष्किन्धाकाण्डे रामवालिनोः संवादे रामो वदति यत् “सशैलवनकानना इयं भूमिः भरतस्य साम्राज्यभूता, तस्यैव
आज्ञया मया वनप्रदेशोऽयं रक्ष्यते” इति) । भरतस्यापि राज्ञी पादुका यतः, तस्याज्ञा पादुकाज्ञा एव इति भावः ।
विशेषः
[सम्पाद्यताम्]अष्टदलपद्मबन्धः इति शब्दचित्रम् अत्र । एकैकस्मिन्नपि दले श्लोकपादार्धं निवेशितम् । दलानाम् अग्रेषु विद्यमानानि अक्षराणि ‘वेङ्कटपतिकमलम्’ इति कवेः नाम सूचयन्ति इति विशेषः । अष्टदलपद्मरूपोऽयं श्लोकः कविना पादुकायाः अर्चने विनियुज्यते
इत्यर्थः ज्ञेयः । (चित्रं पश्यत ।)