पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३१ महाचक्रबन्धः)

विकिसूक्तिः तः
Jump to navigation Jump to search

 
३१. रम्ये वेश्मनि पापराक्षसभिदास्वासक्तधीनायिका
नन्तुं कर्मजदुर्मदालसधियां सा हन्त नाथीकृता ।
सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिका
काचित्स्वैरगमेन केलिसमये कामव्रता पादुका ॥

पदविभागः[सम्पाद्यताम्]

रम्ये, वेश्मनि, पाप-राक्षस-भिदा-सु-आसक्त-धी-नायिका, नन्तुम्, कर्म-ज-दुर्मद-अलस-धियाम्, सा, हन्त, नाथीकृता, सत्-वाट-भ्रमिकासु, तापस-तपः-विस्रम्भ-भू-यन्त्रिका, काचित्, स्वैर-गमेन, केलि-समये, काम-व्रता, पादुका ॥

प्रतिपदार्थः[सम्पाद्यताम्]

केलिसमये – क्रीडावेलायां, स्वैरगमेन – स्वेच्छया सञ्चरणेन, कामव्रता – स्वस्याः इष्टं लोकरक्षणव्रतम् आचरन्ती, पापराक्षसभिदास्वासक्तधीनायिका – पापानां राक्षसानां नाशविषये अत्यर्थम् आसक्तं भगवन्तं नयन्ती, सद्वाटभ्रमिकासु – साधूनाम् ऋषीणाम् आश्रमप्रदेशेषु सञ्चरणेषु, तापसतपोविस्रम्भभूयन्त्रिका – तपस्विजनानां तपःकाले एकाग्रतां जनयन्तीः रेखाः भूमौ विलिखन्ती, सा काचित् पादुका – वाङ्मनसोः अगोचरा सा कापि पादुका, कर्मजदुर्मदालसधियाम् – दुष्कर्मजातेन दुर्मदेन कर्तव्यविषये आलस्ययुतबुद्धीनां जनानाम्, नन्तुम् – नमस्करणाय, रम्ये – अतिसुन्दरे, वेश्मनि – मन्दिरे (श्रीरङ्गविमाने), नाथीकृता – स्वामिनी भूत्वा तिष्ठति ।

तात्पर्यम्[सम्पाद्यताम्]

पादुका न केवलं पुरुषकारं कृत्वा विरमति । अपि च स्वाश्रितान् कथञ्चित् रक्षति । रामः विश्वामित्रयागसंरक्षणाय यदा प्रस्थितः तदा तं सिद्धाश्रमादिप्रदेशेषु नीत्वा ताटकासुबाह्वादीन् नाशितवती एषा । तथैव रामस्य वनवासकाले ऋष्याश्रमप्रदेशेषु स्वरेखाः विलिख्य, ताः पश्यतां राक्षसानां मनसि भयम् उत्पाद्य, तद्द्वारा ऋषीणां मनसि च एताः रेखाः दृष्ट्वा राक्षसाः अत्र नैव आगच्छेयुः इति विश्वासम् उत्पाद्य तेषां तपसि एकाग्रताम् अजनयत् पादुका । तादृशी दुष्टनिग्रहशिष्टपरिपालनजागरूका पादुका दुष्कर्मवशात् धनविद्याभिजात्यमदाभिभूताः मदं हित्वा आत्मक्षेमार्थं करणीयं भगवत्पादसमाश्रयणं यथा कुर्युः तथा तेषां नमनसौकर्याय श्रीरङ्गविमाने परमदयया स्वामिनी भूत्वा तिष्ठति ।

विशेषः[सम्पाद्यताम्]

शार्दूलविक्रीडितवृत्ते निबद्धः अयं श्लोकः । षड्भिः स्तम्भैर्युतः महाचक्रबन्धः इति शब्दचित्रम् अत्र । अस्मिन् बन्धे ‘वेङ्कटनाथीय - पादुकासहस्रम्’ इति कवेः काव्यस्य च नाम पठितुं शक्यम् । द्वाभ्यां स्तम्भाभ्यां युतायाम् एकैकस्यां वीथ्यां प्रदक्षिणक्रमेण श्लोकस्य त्रयः पादाः लिखिताः अस्मिन् बन्धे। तथा च तृतीयपादस्य अन्तिमाक्षरेणारभ्य प्रदक्षिणक्रमेण बहिर्मण्डले चतुर्थः पादश्च लिखितः । मध्ये घटे स्थितं ‘स’ इत्यक्षरं प्रथमद्वितीयतृतीयपादानां दशमम् अक्षरं भवति । त्रयाणाम् एतेषां पादानां प्रथमचरमाक्षराणि चतुर्थे विद्यन्ते । तथा च बहिर्मण्डलादारभ्य तृतीये मण्डले ’वेङ्कटनाथीय’ इति कवेर्नाम, षष्ठे च ‘पादुकासहस्रम्’ इति काव्यनाम पठितुं लभ्येते । ( चित्रं पश्यत ।)