पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३२ चतुरङ्कमष्टाक्षरचक्रम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

 
३२. श्रीसंवेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटः
श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना ।
वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथे-
ऽङ्कस्था चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन! ॥

पदविभागः[सम्पाद्यताम्]

श्री-संवेदन-कर्म-कृत्-वसु, तव, स्याम् ऋद्ध-धैर्य-स्फुटः, श्रीपादावनि!, विस्तृता असि सुखिनी त्वम्, गेय-यात-अयना, वेदान्त-अनुभव-अतिपाति-सुतनुः, सान्द्र-ईड्य-भाव-प्रथे!, अङ्कस्था च अच्युत-दिव्य-दास्य-सुमतिः प्राणस्थ-सीता-धन! ।

प्रतिपदार्थः[सम्पाद्यताम्]

श्री-संवेदन-कर्म-कृत्-वसु! – हे साधूनां सम्पद्भूतवेदोक्तकर्माणि कुर्वतां धन! (पादुकायाः तथाभूतायाः सम्बोधनम्) सान्द्र-ईड्य-भाव-प्रथे! – अधिकाधिकं स्तूयमानत्वेन प्रथिते! प्राणस्थ-सीता-धन! – रामस्य प्राणभूतायाः सीतायाः धन! श्रीपादावनि! – हे भगवतः पादुके! त्वम् गेय-यात-अयना – गातुं योग्येन सञ्चारमार्गेण युता, वेदान्त-अनुभव-अतिपाति-सुतनुः – वेदान्तभूतोपनिषदर्थानाम् यद्वा उपनिषत्प्रतिपाद्यस्य भगवतः अनुभवम् अपि अतिपातिनीं सुन्दरीं तनुं बिभ्रती, अङ्कस्था – भगवतः छत्रचामरादिपरिच्छदेषु मुख्यभूता, अच्युत-दिव्य-दास्य-सुमतिः – आश्रितान् न कदापि च्यावयति यः तादृशस्य अच्युतस्य शुश्रूषायां सुष्ठुबुद्धिमती, सुखिनी – अमान्तम् आनन्दम् अनुभवन्ती, विस्तृता च असि – भगवतः असंख्येषु अवतारेषु अनुरूपैः रूपैः सहचरी भूत्वा तिष्ठसि । (अतः) धैर्यस्फुटः – अनेन विश्वासेन विशदमतिः ( अहम्), तव – त्वद्दासभूतः, स्याम् – भवेयम् ।

तात्पर्यम्[सम्पाद्यताम्]

एवं पूर्वं पठितेषु श्लोकेषु उक्तप्रकारेण आश्रितरक्षणे उपयुक्तपुरुषकारस्वभावः, तत्र च केवलं व्याजमात्रसापेक्षता, स्वातन्त्र्यं, तथा च पादुकादेव्याः विद्यमानानि रक्षणसाधनानि तस्याः रक्षणबलं च अनुसन्धाय, महाविश्वासपूर्वकं पादुकाविषयकं शेषत्वं प्रार्थयते अस्मिन् श्लोके ।

          वेदोक्तकर्मभिः भगवन्तम् आराधयतां तानि कर्माणि सफलानि यथा स्युः तथा विदधाति पादुका । मुमुक्षूणां च तादृशाराधनानां परमं फलं च सैव । त्वं यत्र यत्र मार्गेषु सञ्चरसि तत्र तत्र सर्वाः सम्पदः आविर्भवन्ति, सकलानि अनिष्टानि निवर्तन्ते ततः । एतस्मात् कारणात् लोकः तव यात्राः स्तौति । तव रूपानुभवः एव उपनिषत्प्रतिपाद्यानां तत्त्वार्थानां यद्वा भगवतश्च अनुभवादपि विशेषानन्दकरः भवति । स एव उपासनयोग्यः उपासनफलं चास्ति । त्वदाश्रितानां समीपे त्वां वीक्ष्यैव तेषां सर्वे शात्रवाः भयेन विद्रवेयुर्यथा तथा अतिमुख्यं श्रीवैष्णवलक्षणम् असि । भगवतः अनुपमदास्यकृत्ये प्रवृत्ता आश्रितानां च तादृशीं बुद्धिं जनयित्वा सेव्यासि । भगवदनुभवेन शरणागतरक्षणेन च स्वयम् अपरिमितस्य सुखस्य अनुभोक्त्री त्वम् आश्रितेभ्यश्च निरतिशयसुखदात्री असि । एवं वात्सल्यातिशयेन भगवतः अवतारेषु तदनुरूपैः रूपैः अवतीर्य लोके सञ्चरसि । एवं रक्षणसाधनं तत्फलं च त्वमिति ज्ञात्वा महाविश्वासपूर्वकं तवाहं शेषभूतः स्याम् ।

विशेषः[सम्पाद्यताम्]

  अयमपि श्लोकः शार्दूलविक्रीडितवृत्ते अस्ति । अस्मिन् श्लोके चतुरङ्कमष्टाक्षरचक्रम् इति शब्दचित्रम् । अत्र अष्टौ स्तम्भाः सन्ति । कवेः चत्वारि बिरुदानि प्रदर्श्यन्ते अस्मिन् । श्लोकस्य चत्वारः पादाः प्रदक्षिणक्रमेण द्वाभ्यां द्वाभ्यां स्तम्भाभ्यां युक्तासु वीथीषु लिखिताः । चक्रे प्रथममण्डलवीथ्यां श्लोकस्य चतुर्ष्वपि पादेषु विद्यमानैः अष्टभिः अक्षरैः प्रथमः पादः, तृतीयमण्डले द्वितीयः पादः, षष्ठे मण्डले तृतीयः पादः, अष्टमे च चतुर्थः पादः इति क्रमेण बिरुदैः युक्तः श्लोकः पठितुं शक्यः । स च श्लोकः एवं भवति –
श्री श्रीवेङ्कटनाथेन वेदान्ताचार्यतावता ।
कविवादिमृगेन्द्रेण कृता पादावनीनुतिः ॥
अर्थः – श्रीवेङ्कटनाथाभिधानेन वेदान्तविषयाणाम् आचार्यभूतेन कवीनां वादिनां च सिंहस्वरूपेण इयं पादुकास्तोत्रं कृतम् । एवं कवेः नाम, स्वरूपं, गुणान्, क्रियाश्च प्रकाशयति अयं चित्रबन्धः ।