पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३३ गोमूत्रिकारीबन्धः-द्रुतविलम्बितवृत्तम्)

विकिसूक्तिः तः

 
३३. कनकपीठनिविष्टतनुस्तदा सुमतिदायिनिजानुभवस्मृता ।
विधिशिवप्रमुखौरभिवन्दिता विजयते रघुपुङ्गवपादुका ॥

पदविभागः[सम्पाद्यताम्]

कनक-पीठ-निविष्ट-तनुः, तदा, सुमति-दायि-निज-अनुभव-स्मृता, विधि-शिव-प्रमुखैः, अभिवन्दिता, विजयते, रघु-पुङ्गव-पादुका ॥

प्रतिपदार्थः[सम्पाद्यताम्]

तदा – तस्मिन् पादुकादेव्याः अधिकारकाले, कनक-पीठ-निविष्ट-तनुः – हेमसिंहासने प्रतिष्ठापितशरीरा, सुमति-दायि-निज-अनुभव-स्मृता – सम्यक् बुद्धिं जनयता स्वानुभवेन स्मरणेन च युता, विधि-शिव-प्रमुखैः – चतुर्मुखशङ्करादिभिः, अभिवन्दिता, रघु-पुङ्गव-पादुका – रामस्य पादुका, विजयते ।

तात्पर्यम्[सम्पाद्यताम्]

पूर्वतनश्लोके पादुकां तदेकशेषवृत्तिं प्रार्थ्य, तथेति तया अनुगृहीतः इदानीं श्लोकद्वयेन सन्तोषाधिक्येन तामेव स्तुवन् कविः तस्याः जयघोषं कुर्वन् ‘एवमेव सा सदा मां रक्षतु’ इति प्रार्थयते । पूर्वं रामावतारदशायां कनकमये पीठे स्थित्वा कोसलराज्यस्य एकचक्राधिपत्यं ऊढवत्याः इदानीं च श्रीरङ्गविमाने तस्याः संनिवेशं मनसि निधाय पठ्यमानः श्लोकोऽयम् इति भाति । इयं पादुका ध्यायिनां सुमतिं ददत् स्वानुभवं सामान्यस्मरणं दधाति । अपि च श्रीरङ्गविमाने ब्रह्मरुद्रादिदेवैः या नमस्क्रियते, पूर्वं च रामावतारकाले दिव्यास्थानमण्डपे तैर्देवैः नुता, सा पादुका विजयते । दुष्टराक्षसान् संहृतवती इयं तद्वद् इदानीं मम मनः जित्वा स्वाधीनं कृत्वा विजयते । एवं सा अग्रेऽपि जयशालिनी भूयात् इत्याशंसते कविः । यथा हनुमान् राक्षसानां मध्ये रामस्य जयकारं कृतवान् तद्वत् संसारेऽस्मिन् पादुकायाः जयशालित्वं अस्मिन् श्लोके स्तौति कविः ।

विशेषः[सम्पाद्यताम्]

विशेषः – ३३, ३४ - तमश्लोकयोः
त्रयस्त्रिंशत्तमः श्लोकः द्रुतविलम्बितवृत्ते, चतुस्त्रिंशत्तमः स्रग्विणीवृत्ते च निबद्धः । द्वयोरपि एकैकस्मिन् पादे द्वादशाक्षराणि सन्ति । अनयोः श्लोकयोः समस्थाने स्थितानि अक्षराणि समानानि सन्ति । एतौ गोमूत्रिकारीबन्धे विलिख्य, एकस्य श्लोकस्य प्रथमार्धः द्वितीयस्य प्रथमार्धेन, द्वितीयार्धः द्वितीयार्धेन च गोमूत्रिकाक्रमेण पठितुं शक्यः । (चित्रं पश्यत ।)