पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३४ गोमूत्रिकारीबन्धः-स्रग्विणीवृत्तम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

 
३४. दीनगोपीजनिक्लिष्टभीनुत्सदा रामपादावनि! स्वानुभावस्थिता ।
एधि मेऽवश्यमुत्तारभावश्रिता तेजसा तेन घुष्टिं गता पादुका ॥

पदविभागः[सम्पाद्यताम्]

दीन-गोपी-जनि-क्लिष्ट-भी-नुत्, सदा राम-पाद-अवनि! स्व-अनुभाव-स्थिता, एधि मे अवश्यम् उत्तार-भाव-श्रिता तेजसा तेन घुष्टिं गता पालिका ॥

प्रतिपदार्थः[सम्पाद्यताम्]

(हे) राम-पाद-अवनि! - हे श्रीरामस्य पादुके!, दीन-गोपी-जनि-क्लिष्ट-भी-नुत् – अकिञ्चनानां गोपीजनानां पुनर्जन्म, तथा कंसेन जातानि कष्टानि यद्वा विरहपीडाम्, इन्द्रात् जातं भयं च अपनुदती, सदा, स्व-अनुभाव-स्थिता – स्वमहिम्नि प्रतिष्ठिता, उत्तार-भाव-श्रिता – आश्रितान् संसारात् तारयित्री, तेन तेजसा – अन्यान् स्वं च सर्वविधैः रक्षितुं समर्थेन तेजसा, घुष्टिं गता – घोषं प्राप्ता (त्वम्), मे पालिका एधि – मम पालयित्री भवेः ।

तात्पर्यम्[सम्पाद्यताम्]

कृष्णावतारकाले दीनानां गोपीजनानां इह परत्र च सर्वं भयं दूरीकृतवती पादुका । तासां पुनर्जनिभयस्य, दुष्टकंसेन कृतानां पीडानाम्, अथवा कृष्णविरहपीडायाः, इन्द्रेण जनितस्य भयस्य च अपनोदनं कृतवतीत्यर्थः । सदा स्वमहिम्नः ब्रह्मेन्द्रादिदेवैः, दुष्टराजैः भङ्गः यथा न भवेत् तथा स्थिरप्रतिष्ठिता च पादुका । स्वतेजसा सर्वलोकान् संसारात् तारयितुं समर्था च । तस्याः तेजसः प्रभावः सर्वत्र लोके घुष्यते । ‘तादृशेन स्वतेजसा / सामर्थ्येन मां तव शेषवृत्त्याः अच्युतं कृत्वा रक्ष’ इति कवेः प्रार्थना ।

विशेषः[सम्पाद्यताम्]

विशेषः – ३३, ३४ - तमश्लोकयोः
त्रयस्त्रिंशत्तमः श्लोकः द्रुतविलम्बितवृत्ते, चतुस्त्रिंशत्तमः स्रग्विणीवृत्ते च निबद्धः । द्वयोरपि एकैकस्मिन् पादे द्वादशाक्षराणि सन्ति । अनयोः श्लोकयोः समस्थाने स्थितानि अक्षराणि समानानि सन्ति । एतौ गोमूत्रिकारीबन्धे विलिख्य, एकस्य श्लोकस्य प्रथमार्धः द्वितीयस्य प्रथमार्धेन, द्वितीयार्धः द्वितीयार्धेन च गोमूत्रिकाक्रमेण पठितुं शक्यः । (चित्रं पश्यत ।)