सामग्री पर जाएँ

पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३५ भिन्नवृत्तप्रतिलोमगोमूत्रिका-१)

विकिसूक्तिः तः

 
३५. धामनिराकृततामसलोका धातृमुखैर्विनता निजदासैः ।
पापमशेषमपाकुरुषे मे पादु! विभूषितराघवपादा ॥

पदविभागः

[सम्पाद्यताम्]

धाम-निराकृत-तामस-लोका, धातृ-मुखैः, विनता, निज-दासैः, पापम्, अशेषम्, अपाकुरुषे, मे, पादु! विभूषित-राघव-पादा ।

प्रतिपदार्थः

[सम्पाद्यताम्]

(हे) पादु! – हे पादुके!, धाम-निराकृत-तामस-लोका – तव तेजसा आसुरप्रकृतीन् जनान् नाशयसि । निज-दासैः – स्वदासैः, धातृ-मुखैः – चतुर्मुखादिभिः, विनता – वन्दितासि । (तादृशी) विभूषितराघवपादा – रामस्य पादम् अलङ्कृतवती (त्वं) मे – मम, पापम् – एनः, अशेषम् – निःशेषम्, अपाकुरुषे – दूरीकरोषि ।

तात्पर्यम्

[सम्पाद्यताम्]

पूर्वतनश्लोकद्वये कविः ‘मम प्रार्थनानुगुणं श्रीपादुका अनन्यार्हशेषभूतवस्तुतां मे दत्तवती’ इति सन्तोषेण तस्याः जयकारं करोति । अस्मिन् श्लोके तादृशी शेषवृत्तिः न कदापि च्युता भवेद्यथा तथा ‘तदेकशेषवृत्तेः प्रतिबन्धकानि यानि पापानि मम स्युः तानि सर्वानि स्वयं पादुका अपाकुरुते’ इति कृतज्ञताविष्कारं करोति । अपि च एवं कृतज्ञतापूर्वकं स्वेन क्रियमाणं किञ्चित्कारं शुश्रूषादिकम् अङ्गीकर्तुं पूजावेलायां तस्याः सान्निध्यं प्रार्थयते ।

एतौ श्लोकौ दोधकवृत्ते (३५) उपजातिवृत्ते (३६) च निबद्धौ । द्वयोरपि एकैकस्मिन् पादे एकादश अक्षराणि सन्ति । इमौ गोमूत्रिकाबन्धे एवं लेखनीयौ । प्रथमश्लोकस्य पूर्वार्धं क्रमेण लिखित्वा, तस्य अधः द्वितीयश्लोकस्य पूर्वार्धः व्युत्क्रमेण लेखनीयः यथा प्रथमश्लोकस्य समस्थानेषु स्थितानाम् अक्षराणाम् अधः द्वितीयश्लोकस्य समस्थाने स्थितानि अक्षराणि, एवमेव विषमस्थाने स्थितानाम् अक्षराणाम् अधः विषमस्थाने स्थितानि अक्षराणि लिखितानि भवेयुः । गोमूत्रिकारीत्या क्रमेण पठनेन प्रथमः श्लोकः, व्युत्क्रमेण पठनेन द्वितीयः श्लोकश्च लभ्यते । अस्य शब्दचित्रस्य ‘भिन्नवृत्तप्रतिलोमगोमूत्रिका’ इति नाम । ( चित्रं पश्यत ।)