पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३६ भिन्नवृत्तप्रतिलोमगोमूत्रिका-२)

विकिसूक्तिः तः

 
३६. कृपानघत्रातसुभूरदुष्टा मेध्या रुचा पारिषदामभूपा ।
पादावनि! स्त्यानसुखैर्न तृप्ता कान्त्या समेताधिकृताऽनिरोधा ॥

पदविभागः[सम्पाद्यताम्]

कृपा-अनघ-त्रात-सुभूः, अदुष्टा, मेध्या, रुचा, पारिषदा, आम, भूपा, पादावनि! स्त्यान-सुखैः न तृप्ता, कान्त्या, समेता, अधिकृता, अनिरोधा ।

प्रतिपदार्थः[सम्पाद्यताम्]

पादावनि! – हे पादुके! (त्वम्), कृपानघत्रातसुभूः – दयया दुःखरहितं यथा तथा रक्षितपुण्यभूमिः, अदुष्टा - दोषरहिता, रुचा - कान्त्या, मेध्या - परिशुद्धा, पारिषदा – सतां गोष्ठीषु साध्वी, भूपा – भुवं पालयित्री, स्त्यानसुखैः – अधिकसुखैः, न तृप्ता – तृप्तिं न गता, कान्त्या – इच्छया, समेता – सहिता, अधिकृता – अधिकारं प्राप्ता, अनिरोधा – स्वस्य निरोधरहिता (च असि) । (तादृशी त्वम्) आम – आगच्छेः ।

तात्पर्यम्[सम्पाद्यताम्]

हे पादुके! रामकृष्णाद्यवतारेषु आर्यावर्तादिभूप्रदेशेषु वास्तव्यैः जनैः आराधिता त्वं कृपया तान् दुःखरहितान् कृत्वा रक्षितवती खलु । तव रत्नकिरणैः समस्तं लोकं पावयितुं समर्थासि त्वम् । तत्त्वविदां सर्वभूतसुहृदां सदारक्षणशीलानां साधूनां गोष्ठीषु त्वम् उत्तमा खल्वसि । इमां भुवं रक्षितुमेव स्थिरान् अर्चावतारान् करोषि ननु । भगवतः पादयोः नित्यसम्बन्धेन तव यत् अधिकं सुखं भवति तेन न कदापि तृप्ता त्वम् । तव भगवत्पादसमागमो यथा तथैव आश्रितानां भगवत्पादसमाश्रयं घटयन्ती तेषां तत्प्राप्तौ च इच्छां वहसि । लोकरक्षणस्य सर्वोऽपि अधिकारः भवत्यां न्यस्तः खलु । तस्मादेव कारणात् स्वेच्छया लोकं रक्षितुं सर्वत्र सञ्चरन्ती न केनापि न वा विघ्नैः निरुद्धा त्वम् । एवं सततशेषवृत्तिप्रतिबन्धकानि पापानि मम क्षपयसि । नैतावता अलम् । मया क्रियामाणान् किञ्चित्कारान् अङ्गीकृत्य माम् अनुग्रहीतुं मम पूजाकालेषु त्वया सान्निध्यं करणीयम् । तथा करणे आवश्यकाः ये गुणाः, बाध्यता, अधिकारः इत्यादयः सर्वे तव सन्त्येव ।

विशेषः[सम्पाद्यताम्]

एतौ श्लोकौ दोधकवृत्ते (३५) उपजातिवृत्ते (३६) च निबद्धौ । द्वयोरपि एकैकस्मिन् पादे एकादश अक्षराणि सन्ति । इमौ गोमूत्रिकाबन्धे एवं लेखनीयौ । प्रथमश्लोकस्य पूर्वार्धं क्रमेण लिखित्वा, तस्य अधः द्वितीयश्लोकस्य पूर्वार्धः व्युत्क्रमेण लेखनीयः यथा प्रथमश्लोकस्य समस्थानेषु स्थितानाम् अक्षराणाम् अधः द्वितीयश्लोकस्य समस्थाने स्थितानि अक्षराणि, एवमेव विषमस्थाने स्थितानाम् अक्षराणाम् अधः विषमस्थाने स्थितानि अक्षराणि लिखितानि भवेयुः । गोमूत्रिकारीत्या क्रमेण पठनेन प्रथमः श्लोकः, व्युत्क्रमेण पठनेन द्वितीयः श्लोकश्च लभ्यते । अस्य शब्दचित्रस्य भिन्नवृत्तप्रतिलोमगोमूत्रिका इति नाम । ( चित्रं पश्यत ।)