पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३७ भिन्नवृत्तानुलोमप्रतिलोमयमकचित्रम् )

विकिसूक्तिः तः

 
३७. सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा ।
साहसकार्यवनाशा धीरा वसुदा नवन्यासा ॥

पदविभागः[सम्पाद्यताम्]

सारस-सौख्य-समेता, ख्याता, पदपा, भुवि, स्वाज्ञा, साहसकारि-अवन-आशा, धीरा, वसुदा, नव-न्यासा ।

प्रतिपदार्थः[सम्पाद्यताम्]

सारस-सौख्य-समेता – कमलपुष्पस्य सुखं प्राप्ता, स्वाज्ञा – क्षेमकरीः आज्ञाः कुर्वती, साहसकार्यवनाशा – साहसं कुर्वतः भरतस्य रक्षणे इच्छां बिभ्रती, धीरा, वसुदा – सकलसम्पद्दात्री, नवन्यासा – नित्यनूतनसंनिवेशा, पदपा – पादुका, भुवि – लोके, ख्याता – आश्रितसुलभा इति ख्याता ।

तात्पर्यम्[सम्पाद्यताम्]

पूर्वतनश्लोकद्वये उक्तं यत् ‘पादुका मम शेषवृत्तिविरोधिपापानि क्षपयति यतः तस्यै कृतज्ञताविष्करणार्थं सा मे प्रत्यक्षा भवतु इति प्रार्थये’ इति । इदानीं श्लोकद्वयेन सा ‘मम प्रार्थनाम् अङ्गीकृत्य आराधनसुलभा भूत्वा, स्वमहिमानं न ख्यापयन्ती, मया सह सखीव सरसतया वर्तते’ इति कविः वदति ।

विशेषः[सम्पाद्यताम्]

अनयोः द्वयोः श्लोकयोः भिन्नवृत्तानुलोमप्रतिलोमयमकचित्रम् वर्तते । द्वावपि आर्यावृत्तस्य प्रभेदौ । तद्यथा – प्रथमः श्लोकः (३७) अन्तिमाक्षरादारभ्य विलोमक्रमेण पठ्यते चेत् द्वितीयश्लोकः (३८) लभ्यते । तथैव द्वितीयः श्लोकः (३८) विलोमक्रमेण पठ्यते चेत् प्रथमः (३७) लभ्यते ।