पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३८ भिन्नवृत्तानुलोमप्रतिलोमयमकचित्रम् )

विकिसूक्तिः तः
Jump to navigation Jump to search

 
३८. सान्यावनदा सुवराऽधीशाना वर्यका सहसा ।
ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा ॥

पदविभागः[सम्पाद्यताम्]

सान्या, अवन-दा, सुवरा, अधीशाना, वर्य-का, सहसा, ज्ञा, स्व-अ, विभु-पादपता-ख्याता, मे सखी असौ सरसा ।

प्रतिपदार्थः[सम्पाद्यताम्]

सान्या- सर्वेषामपि भक्त्यर्हा, अवन-दा- सर्वेषां च तेषां रक्षणदात्री, अधीशाना- सर्वस्यापि लोकस्य अधीश्वरी, वर्यका- महासुखवती, ज्ञा- ज्ञानवती, स्वा- स्वम् अकारवाच्यं भगवन्तं प्राप्ता, विभु-पादपता-ख्याता- विभोः भगवतः पादयोः पातृत्वेन प्रसिद्धा, असौ- एषा (पादुका), सहसा- अतिशीघ्रं, सुवरा- सुलभतया वरणयोग्या, सरसा- सरसतया व्यवहर्तुं योग्या सखी अस्ति ।

तात्पर्यम्[सम्पाद्यताम्]

मम अत्यन्तं सुलभतया आराध्या पादुका इति कारणेन सा सामान्या वा इति चेत् न । तस्याः महिम्नः मम च नैच्यस्य उपमानं नास्त्येव । सा तु सर्वलोकोपास्या । अहं तु तां मनसा ध्यातुमपि योग्यताविरहितः । सर्वस्यापि लोकस्य रक्षणं विदधाति सा । अहं तावत् स्वरक्षणेऽप्यसमर्थः । सर्वैः सुलभतया आश्रयणे आभिमुख्यवती सा । अहं तु गणनीयः एव न । सा च परमसुखवती अवाप्तसमस्तकामा । किन्त्वहं दुःखस्वरूपवान् । सा सर्वज्ञा । अहं च ज्ञानविहीनेषु प्रथमः । तस्यास्तु सर्वेश्वर एव स्वाधीनः । अहं तावत् तेन सर्वथा विरहितः । सा च भगवत्पादयोरपि रक्षणं करोति इति प्रसिद्धा । परमहं तं भगवन्तमपि क्लेशयामि । एवं स्वरूपेण, गुणेन, व्यापारेण महिम्ना च मातुमशक्या सा नीचेन मया केवलं स्वसौशील्यगुणेन अतिशीघ्रं वरणयोग्या भूत्वा, सखीव मयि स्नेहं दर्शयन्ती, हिताहितं उपदिशन्ती स्वमहिमानं यथाहं विस्मरेयं तथा करोति ।
एवम् अस्मिन् श्लोके पादुकादेव्याः सौलभ्यसौशील्यगुणौ कीर्तितौ भवतः । सौलभ्यसौशील्ये भगवतः कल्याणगुणेषु अन्यतमे । सौलभ्यं तावत् - महिम्ना सर्वोत्तरोऽपि सन् भक्तैः प्रार्थितः अनुक्षणं तान् यदुपगच्छति देवः । तथा उपगतः स्वमहिमानम् अख्यापयन्नेव नीचेनापि भक्तेन सरसतया व्यवहरन् तस्य भक्तस्य उपचारान् महत्या प्रीत्या स्वीकरोति यत् तत् तस्य सौशील्यम् । “महतो मन्दैस्सह नीरन्ध्रेण संश्लेषः सौशील्यम्” – यथा रामस्य गुहसमागमे । समेषु यत् सौहार्दं तत् स्नेहः इत्युच्यते । महतां विषये या प्रीतिः सा भक्तिरित्युच्यते । नीचानां विषये महतां स्नेहः प्रीतिरित्युच्यते ।

विशेषः[सम्पाद्यताम्]

अनयोः द्वयोः श्लोकयोः भिन्नवृत्तानुलोमप्रतिलोमयमकचित्रम् वर्तते । द्वावपि आर्यावृत्तस्य प्रभेदौ । तद्यथा – प्रथमः श्लोकः (३७) अन्तिमाक्षरादारभ्य विलोमक्रमेण पठ्यते चेत् द्वितीयश्लोकः (३८) लभ्यते । तथैव द्वितीयः श्लोकः (३८) विलोमक्रमेण पठ्यते चेत् प्रथमः (३७) लभ्यते ।