पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (३९ पादुकाद्वयगर्भम् अष्टदलपद्मम्)

विकिसूक्तिः तः

 
३९. तारस्फारतरस्वररसभररा सा पदावनी सारा ।
धीरस्वैरचरस्थिररघुपुरवासरतिरामसवा ॥

पदविभागः[सम्पाद्यताम्]

तार-स्फारतर-स्वर-रस-भर-रा, सा, पद-अवनी, सारा, धीर-स्वैर-चर-स्थिर-रघु-पुर-वास-रति-राम-सवा ।

प्रतिपदार्थः[सम्पाद्यताम्]

धीर- धैर्यशालिनं, स्वैरचर- स्वेच्छया चरितुं समर्थं, स्थिर- अविचलितस्वभावं, रघुपुर- अयोध्यापुरे, वास- ये वसन्ति तेषु, रति- प्रीतिमन्तं राम- रामं, सवा- प्रेरयन्ती, तार- उच्चैः, स्फारतर- प्रतिक्षणं वृद्धिमता, स्वर-शब्देन, रसभर- प्रीतेः आधिक्यं, रा- ददती, सा पदावनी – सौशील्यादिगुणैः प्रसिद्धा सा पादुका, सारा – सञ्चारशीला ।

तात्पर्यम्[सम्पाद्यताम्]

स्वसौलभ्यसौशील्यगुणौ प्रदर्शयन्ती पादुका आश्रितानाम् आराध्या इति पूर्वतनश्लोकयोः तात्पर्यम् । न केवलं तावत् । सा यदा यदा आश्रितानभियाति तदा तदा स्वाधीनं भगवन्तमपि सहैव नयनशीला इति अस्य उपरितनस्य श्लोकस्य च तात्पर्यम् ।

भगवान् पादुकादेव्याः वश्यः अस्ति । तं पादुकादेवी साधुजनानां गृहेषु नयति इति अग्रिमश्लोके वक्ष्यति ।

विशेषः[सम्पाद्यताम्]

पादुकाद्वयगर्भम् अष्टदलपद्मम् इति अस्य शब्दचित्रस्य नाम । अस्मिन् चित्रे अष्टभिः दलैः युक्तस्य पद्मस्य मध्ये कर्णिकायां पादुके दृश्यतः । कर्णिकामध्ये ‘र’ इति अक्षरम् । पद्मस्य मध्यदले विद्यमानात् ‘ता’ इत्यक्षरात् आरभ्य प्रदक्षिणक्रमेण चतुर्षु दलेषु विद्यमानानि अक्षराणि एकैकशः कर्णिकामध्ये स्थितेन ‘र’ इति अक्षरेण सह पठित्वा, दक्षिणपादुकायाः अधोभागे मध्ये च विद्यमाने अक्षरे च रेफेण सह पठ्येते चेत् श्लोकस्य प्रथमः पादः लभ्यते । पश्चात् तस्या एव पादुकायाः मध्ये उपरि विद्यमानेन ‘रा’ इत्यक्षरादारभ्य अङ्गुलीषु विद्यमानानि अक्षराणि पठ्यन्ते चेत् ‘रासापदावनीसारा’ इति श्लोकस्य द्वितीयः पादः लभ्यते । एवमेव वामभागे चतुर्षु दलेषु विद्यमानानि अक्षराणि मध्ये स्थितेन रेफेण वामपादुकायां स्थितैः अक्षरैश्च पठनीयानि । एवं च श्लोकस्य उत्तरार्धः लभ्यः । अङ्गुलीषु विद्यमानैः अक्षरैः ‘सरति रामपदावनी सा’ इति वाक्यं पठितुं शक्यम् । (चित्रं पश्यत)

अस्य पद्मबन्धस्य अभिप्रायः एवमस्ति । ३७ तमे श्लोके आचार्यः ‘सारससौख्यसमेता’ इति पदेन पद्मस्योपरि पादुकां निवेश्य पादुका पद्मासनसुखम् अनुभवति यथा तथा भावयति । यद्वा हृत्पद्ममध्ये पादुकां निवेश्य ध्यायति आचार्यः । यद्वा ३१ तमे श्लोके ‘सद्वाट…. यन्त्रिक’ इति पदेन उक्तरीत्या यत्र यत्र पादुका सञ्चरति तत्र सर्वत्र पद्मरेखादिचिन्हानि दृश्यन्ते इति भावः । स्ववशे स्थितं रामं यदा आश्रितानां कठिनेषु हृदयेषु वस्तुं नयति तदा स्वयं पद्ममिव मध्ये स्थित्वा तानि हृदयानि मृदूकरोति इति भावः ।