पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (४०)

विकिसूक्तिः तः

 
४०. चरमचरं च नियन्तुश्चरणावनिदम्परेतरा शौरेः ।
चरमपुरुषार्थचित्रौ चरणावनि दिशसि चत्वरेषु सताम् ॥

पदविभागः[सम्पाद्यताम्]

चरम्, अचरम्, च, नियन्तुः, चरणौ, अनिदम्पर-इतरा, शौरेः, चरम-पुरुष-अर्थ-चित्-त्रौ, चरण-अवनि, दिशसि चत्वरेषु सताम् ।

प्रतिपदार्थः[सम्पाद्यताम्]

हे चरणावनि! – हे भगवतः पादुके!, अनिदम्परेतरा – एतत्कार्यपरा सती (त्वं), चरम् – जङ्गमस्य, अचरं च – स्थावरस्य च, नियन्तुः – नियमनकर्तुः, शौरेः – श्रीरङ्गनाथस्य, चरम-पुरुष-अर्थ-चित्-त्रौ – अन्तिमस्य मोक्षाख्यपुरुषार्थस्य ज्ञानं रक्षन्तौ, चरणौ – पादौ, सताम् – सत्पुरुषाणां, चत्वरेषु – पूजागृहेषु, दिशसि – नयसि ।

तात्पर्यम्[सम्पाद्यताम्]

हे शौरिपादुके! त्वं यदा अकिञ्चनानां साधूनां गृहचत्वरेषु गच्छसि, तदा स्थावरजङ्गमरूपस्य सर्वस्य लोकस्य नियन्तुः रङ्गनाथस्य चरणावपि तत्र नयसि । एतौ चरणौ चतुर्षु पुरुषार्थेषु प्रथमानां त्रयाणां पुरुषार्थानां ज्ञानम् अपनुद्य चरमपुरुषार्थे मोक्षे एव तेषां मतिः यथा भवेत् तथा कुरुतः । अस्मिन् कार्ये तव अभिसन्धिः दृढः दृश्यते । अर्थात् साधूनां गृहेषु प्रवर्तमानायां पूजायां पादुका एकाकिनी नैव गच्छति, किन्तु भगवन्तमपि तत्र नयति । यथा तेषां भगवदनुग्रहेण चरमः पुरुषार्थः मोक्षः सिध्यति ।

एवं च अस्यां पद्धत्यां आचार्यसार्वभौमः श्रीदेशिकः तत्त्वज्ञानं प्राप्तवतां मुमुक्षूणां चरमपुरुषार्थसिध्यर्थम् उपायानुष्ठानम् उपदेशद्वारा, स्वयम् अनुष्ठानेन च बोधयति ।