पित्रनुसृतस्तनन्धय –न्यायः

विकिसूक्तिः तः

स्तनन्धयस्य निष्कपटस्य पित्रा अनुकरणं नाम स्तनन्धय इव निष्कपटारीत्या वर्तनमिति । तथा ब्रह्मज्ञानी अस्मिन् जगति निष्कपटरीत्या जीवन् सर्वेषां मनो हरति ।

यथा –कृतकृत्यस्य तत्त्वविदः अतत्त्वविद् – उद्धारातिरिक्तकर्तव्यभावात् यथा तदुद्धारः स्यात् तथा कर्तव्यम् । सुरेन्द्रादिपूज्येनापि विदुषा पित्रनुसृतस्तनन्धयन्यायेन अज्ञः अनुसर्तव्यः । तैर्निन्द्यमानोऽपि देहस्य निन्द्यत्वमात्मनोऽवाङ्मानस गम्यत्वं जानन् न उद्विजेत् । किन्तु प्रस्तुततच्चेष्टानुसारेण स्वयमप्याचरेत् ॥ (सा. २०७)