पुत्रान्तरकाङ्क्षिणीन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

अधिककालानन्तरम् एका महिला एकम् अपत्यं प्राप्तवती । इतोऽपि एकः पुत्रः भवतु इति सा सर्वदेवान् प्रार्थितवती । व्रतादिकम् आचरितवती । अन्ते सा एकां महिलाम् आश्रितवती । तदा सा “त्वं प्रथमपुत्रं बलिरुपेण अर्पय । तर्हि द्वितीय पुत्रो भविष्यति । अहं प्रमाणम्”इत्युक्तवती । वञ्चनकारिण्याः तस्याः वचनेषु विश्वासेन स्वस्याः प्रथमपुत्रं बलिरुपेणा दातुं सिद्धाऽभवत् सा स्त्री । तदा गृहे वर्तमाना काचन वृद्धा एतद् विदित्वा उक्तवती- “मूर्खे ! तस्याः वञ्चक्याः वाक्येन त्वं प्रथमपुत्रं बलिरुपेण दातुं सिद्धा अभवः । यदि प्रथमपुत्रस्य वधानन्तरं तव द्वितीयपुत्रो न जातश्चेत् किं करिष्यसि ? सर्वनाश एव भवेत् खलु” इति । अत्र किञ्चन सुभाषितमस्ति –

यो ध्रुवाणि परित्यज्याध्रुवाणि निषेवते ।

ध्रुवं तस्य विनष्टं स्यादध्रुवं नष्टमेव हि ॥ हितोपदेश- मित्रलाभे १८४