पुराणमित्येव न साधु सर्वं...

विकिसूक्तिः तः

सुभाषितम्

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥




तात्पर्यम्

पुरातनं सर्वं सुवर्णमिति वक्तुं न शक्यते । नूतनम् इत्यनेन कारणेन किमपि निन्दार्हं न भवति । विवेकिनः स्वतः परीक्ष्य योग्यमिति भासते चेदेव तद् अङ्गीकुर्वन्ति । मूढाः अन्यैः उक्तमेव विश्वस्य व्यवहाररन्ति । तेषां स्वीयं ज्ञानं न भवति ।