पुराणवैराग्यन्यायः
दिखावट
पुराकथानां श्रवणकाले ऎहिकसुखेषु वैराग्यं जायते । जगति सर्वं नश्वरम् इति भावना जागर्ति । परन्तु इयं भावना कियत्कालं यावत् तिष्ठेत् ? पुराणकथाश्रवणपर्यन्तमेव खलु । तदनन्तरं पुनः प्रापञ्चिकविषयेषु मोहः भवति । एवं तात्कालिकवैरागस्य सूचकोऽयं न्यायः ।
तुल्यः – श्मशानवैराग्यन्यायः ।