पुरुषो वाव यज्ञः...

विकिसूक्तिः तः

पुरुषो वाव यज्ञः, तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातस्सवनम् । - छान्दोग्योपनिषत् ३-१६-१

पुरुष एव यज्ञः, तस्य यानि चतुर्विंशतिवर्षाणि तदेव प्रातः- सवनम् ।

अस्य ‘पुरुषविद्या’ इति नामधेयम् । पुरुष एव यज्ञत्वेन उपास्यः । अत्र पुरुषो नाम जीवात्मा । इमम् एव
‘यज्ञः’ इति उपासीत । पुरुषस्य यज्ञस्य च साम्यम् उपदिशति अयं मन्त्रः ॥

यज्ञो हि सामान्येन प्रातस्सवनम्, माध्यन्दिनसवनम्, सायंसवनम् च ति त्रेधा विभज्यते । तद्वदेव पुरुषस्य
आयुरपि कौमारम्, यौवनम्, वार्धक्यं च इति त्रिधा विभज्यते ॥

प्राथमिकं चतुर्विंशतिसंवत्सराख्यम् आयुः परिमाणं गायत्री प्रातस्सवनम् इति, मध्यस्थं चतुश्चत्वारिंशत्
संवत्सरपरिमाणम् आयुः त्रिष्टुप् माध्यन्दिनसवनम् इति, अन्त्यम् अष्टचत्वारिंशत् संवत्सरपरिमितम् आयुः
जगती सायंसवनम् इति च उपासितव्यम् । तादृशस्य उपासकस्य आरोग्यसन्तोषयुक्तं षोडशोत्तरशत
संवत्सरपर्यन्तं दीर्घमायुः लभ्यते ॥

"https://sa.wikiquote.org/w/index.php?title=पुरुषो_वाव_यज्ञः...&oldid=16370" इत्यस्माद् प्रतिप्राप्तम्