पुरुष एवेदं विश्वं...

विकिसूक्तिः तः

पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायां
सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ - मुण्डकोपनिषत् २-१-१०

कर्माणि, तपश्च – इत्यादिरूपं विश्वं सर्वमपि परामृतः पुरुष एव । पुरुष एव परं ब्रह्म ।
इदं ब्रह्म गुहायां निहितमिति यो वेद, हे सोम्य, सः अविद्याग्रन्थिं विकिरति, नाशयति ॥

सर्वोऽप्ययं प्रपञ्चः पुरुषादेव जायते, पुरुषेणैव जीवति, पुरुषे एव च लीयते; तस्मात् पुरुषात्
भिन्नतया नैव विद्यते । इदं सर्वमपि विश्वं पुरुष एव । अत एव 'पुरुषे आत्मनि एकस्मिन्
विदिते सर्वोऽप्ययं प्रपञ्चः विदितो भवति' इति श्रुतिः ब्रवीति ॥

अस्मिन् विश्वे प्राणः, मनः, इन्द्रियाणि, हिरण्यगर्भः, विराट् पुरुषः, वेदाः, यज्ञाः, संवत्सरः,
दक्षिणाः, लोकाः, देवताः, साध्याः, मनुष्याः, प्राणिनः, नक्षत्राणि, ग्रहाश्च अन्तर्भवन्ति । ईदृशस्य
विश्वस्य कारणं पुरुषः । ‘अहमेवास्मि अयं पुरुषः’ इति विज्ञाते सति इहैव जीवन्नेव अविद्याग्रंथिः
सम्पूर्णतया नश्यति ॥

"https://sa.wikiquote.org/w/index.php?title=पुरुष_एवेदं_विश्वं...&oldid=16573" इत्यस्माद् प्रतिप्राप्तम्