पुष्पवन्तोपकारकन्यायः

विकिसूक्तिः तः

पुष्पवन्तौ इति सूर्याचन्द्रमसोः साकल्येन व्यपदेशः । पुष्पं नाम प्रकाशः ।

पुष्पवन्तौ नाम प्रकाशकौ इति भावः । यथा अनयोः उपकारकस्वभावः तथा सज्जनानामपि सदा उपकारकस्वभावो भवतीति भावः ।