पूर्णमदः पूर्णमिदं...

विकिसूक्तिः तः

<poem> पूर्णमदः पूर्णमिदं पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय पूर्णमेव अवशिष्यते ॥ - बृहदारण्यकोपनिषत् ५-१-१

तत् पूर्णम्, इदं पूर्णम्, पूर्णात् पूर्णम् उद्भूतम् । पूर्णस्य पूर्णम् आदाय पूर्णमेव अवशिष्यते ॥

अयं हि सुप्रसिद्धो जनप्रियश्च मन्त्रः । अत्रमन्त्रे पूर्णशब्दः सप्तकृत्वः आम्नातः । परिपूर्णे परब्रह्मणि भेदा वा अंशा वा तारतम्याणि वा नैव विद्यन्ते इति सुन्दरतया सरलतया च अयं मन्त्रः उद्घोषयति । आकाशवत् निरवयवं सर्वव्यापकं च ब्रह्म परिपूर्णमेव खलु ?

सोपाधिकतया दृश्यमानमिदं जगत् अपि पूर्णमेव । महाकाशः पूर्णः, घटाकाशोऽपि पूर्णः । पूर्णे ब्रह्मणि महत् अल्पम् इति भेदो नावकल्पते । पूर्णात् ब्रह्मणः आगतं सर्वमपि पूर्णमेव ब्रह्म । इदं जगदपि पूर्णमेव । अणुरेणुतृणकाष्ठादि सर्वमपि पूर्णः ब्रह्मैव । अविद्याकल्पितेषु उपाधिष्वेव तारतम्यं दृश्यते न तु पूर्णे ब्रह्मणि । एवंविद्वानेव ब्रह्मज्ञानी । सोऽपि पूर्णं ब्रह्मैव भवति ॥

"https://sa.wikiquote.org/w/index.php?title=पूर्णमदः_पूर्णमिदं...&oldid=7107" इत्यस्माद् प्रतिप्राप्तम्