प्रज्ञाने सर्वं प्रतिष्ठितं...

विकिसूक्तिः तः

प्रज्ञाने सर्वं प्रतिष्ठितं, प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा ‘प्रज्ञानं ब्रह्म’ ॥ - ऎतरेयोपनिषत् ३-१-३

सर्वं प्रज्ञाने प्रतिष्ठितम् । अयं लोकः प्रज्ञानेत्रः । प्रज्ञा एव प्रतिष्ठा, प्रज्ञानं ब्रह्म ॥

जीवब्रह्मणोः एकत्वप्रतिपादनपराणि इमानि महावाक्यानि । चत्वारि प्रसिद्धानि महावाक्यानि सन्ति ।
ऋग्वेदीय ऎतरेयोपनिषदि प्रज्ञानं ब्रह्म; यजुर्वेदीय बृहदारण्यकोपनिषदि अहं ब्रह्मास्मि; सामवेदीय
छान्दोग्योपनिषदि तत्त्वमसि; तथा अथर्ववेदीय माण्डूक्योपनिषदि अयमात्मा ब्रह्म इति ।
एतेषु एकैकमपि महावाक्यम् उपनिषदां परमसन्देश एव ॥

प्रकृते 'प्रज्ञानं ब्रह्म' इत्येतत् ऎतरेयोपनिषदः महावाक्यम् । 'प्रज्ञानम्' इति –प्रकृष्टं ज्ञानं प्रज्ञानम् ।
इन्द्रियोपाधिद्वारा भिन्नभिन्नतया अवभासमानाः चैतन्यस्वरूपाः जीवाः प्रज्ञानम् इति कथ्यन्ते । एते परिच्छिन्ना
जीवाः सर्वे परमार्थतः अरिपूर्णब्रह्मस्वरूपा एव । प्रज्ञानं नाम पूर्णं ब्रह्मैव । जीवाः नूनं परं ब्रह्मैव ॥