प्रतिनिधिन्यायः (प्रतिनिधानन्यायः)

विकिसूक्तिः तः

एकस्य अनेकेषां वा प्रतिनिधिरुपेण कस्यचन प्रवृत्तिः अस्य भावः । उपवाससमये प्राणाहुतेः अग्निहोत्रम् अनुष्ठातव्यं भवति तदा जलम् अन्यत् वा द्रव्यम् उपयोक्तव्यं भवति । तदा तस्य प्रतिनिधिरिति नाम मीमांसाशास्त्रे प्रसिद्धम् । मीमांसासूत्रम् ६-३-१५, १७)

यथा – भोजनलोपेऽपि अद्भिर्वाऽन्येन वा द्रव्येण अविरुद्धेन प्रतिनिधा-नन्यायेन प्राणाग्निहोत्रस्य अनुष्ठानमिति । ब्रह्मसूत्र. शा. भा. ३-३-४०