प्रदीपन्यायः

विकिसूक्तिः तः

अस्य एवमर्था भवन्ति –

1. एकत्र वर्तमानस्यापि दीपस्य प्रकाशः दूरं यावत् प्रसरति 2. वर्तिका, तैलं, अग्निः इति परस्परभिन्नानां विरुद्धानामपि वस्तूनां मेलनेन दीपः प्रकाशते । क्वचित् परस्परविरोधे सत्यपि ते पदार्थाः एकार्थं साधयन्तीति भावः । (यथा- प्रदीपवच्चार्यतो वृत्तिः इति सांख्यकारिकया १३ प्रतिपादितं यत् सत्त्वरजस्तमोगुणाः त्रयः परस्परविरोधिनः सन्तोऽपि एकार्थं साधयन्ति इति) (परिभाषेन्दुशखरे २,३) तुल्यः – नतकन्यायः

"https://sa.wikiquote.org/w/index.php?title=प्रदीपन्यायः&oldid=10454" इत्यस्माद् प्रतिप्राप्तम्