प्रस्तावसदृशं वाक्यं...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
प्रस्तावसदृशं वाक्यं सद्भावसदृशं प्रियम् ।
आत्मशक्तिसमं कोपं कुर्वाणो नावसीदति ॥
तात्पर्यम्
सन्दर्भोचितं वचनं यः वदति, उत्तमभावानुगुणं सत्कार्याणि यः करोति, स्वस्य सामर्थ्यानुगुणं यः कुप्यति सः कदापि अधोगतिं न प्राप्स्यति ।