प्राप्यापदं न व्यथते कदाचित्...

विकिसूक्तिः तः

सुभाषितम्

प्राप्यापदं न व्यथते कदाचिदुद्योगवन्विच्छति चाप्रमत्तः ।
दुःखं च काले सहते महात्मा धुरन्धरस्तस्य विपद्विनश्येत् ॥




तात्पर्यम्

आपत्तौ व्यथां न अनुभवतः, कार्ये प्रमादं न आचरतः, दुःखं धैर्येण सहतः महात्मनः सर्वाः विपत्तयः विनष्टाः भवन्ति ।