प्रिया बत अरे नः...
प्रिया बत अरे नः सती प्रियं भाषसे, एहि आस्स्व व्याख्यास्यामि ते,
व्याचक्षाणस्य तु मे निदिध्यासस्व इति । - बृहदारण्यकोपनिषत् २-४-४
अरे मैत्रेयि, त्वं मम इदानीम् अत्यन्तं प्रीतिपात्रम् असि, यतः मम प्रियमेव
त्वं वदसि । आगच्छ सामीप्यं मम । उपविश, तुभ्यम् अहं वदामि । उपदेशं
कुर्वतः मम वचः निदिध्यासस्व ॥
याज्ञवल्को महर्षिः स्वीयां प्रियपत्नीं मैत्रेयीम् इदमाह वचः । मैत्रेयी याज्ञवल्क्यं
प्रति एवं प्रार्थयते 'अहम् अमृतत्वमेव अपेक्षे, आत्मज्ञानमेव अहम् अर्थये,
अमृतत्वस्य असाधनभूतां लौकिकीं सम्पदम् अहं न कामये; भवानेव मह्यम्
आत्मज्ञानोपदेशं करोतु' । एतद्वचः श्रुत्वा याज्ञवल्क्यमहर्षिः मैत्रेयीं स्वपत्नीमिदं
मन्त्रगतं वचनम् अवदत् ॥
पतये पत्नी अत्यन्तं प्रिया कदा भवति । यदा मुमुक्षुर्भवति तदा । आत्मज्ञानप्रेप्सुः
यदा भवति पत्नी तदैव खलु सा भर्त्रे अधिकं प्रिया भवति ? ब्रह्मिष्ठेन भर्त्रा स्वप्रियायै
पत्न्यै प्रदेया सम्पत् नाम आत्मज्ञानमेव, अमृतत्वमेव । पश्यत ! भारतीयभव्य-
दिव्यपरंपरायां पतिपत्न्योः अन्योन्यता, प्रीतिविश्वासः, आदर्शश्च कथमस्ति !!