प्रेता जयता नरः ॥

विकिसूक्तिः तः

प्रेता जयता नरः ॥ (सामवेदः १८६-२)[सम्पाद्यताम्]

हे मानव ! अग्रे सर, विजयी भव ।

प्र इता । नरः इता प्र जयत ।
अग्रेसरणं विजयीभवनं च मानवमात्रेण प्राप्तं सौभाग्यम् । मानवेतरपशु-पक्षी-कृमि-कीटादयः स्वस्य मूलभूतप्रवृत्त्यनुसारमात्रं (निद्रा-आहार-भय-मैथुनानि) जीवनं कर्तुम् अर्हन्ति ! प्राप्तमानवजन्मा अपि मूलभूतप्रवृत्तीनां तर्पणायमात्रं जीवनं यापयति चेत् मानवजन्म व्यर्थीकृतवान् इत्यर्थः ! अग्रे सरणाय प्राप्तः अवसरः विनष्टः इत्येव !!
ज्ञान-अवगमन-चिन्तन-प्रश्न-प्रयोगादिभिः प्राप्यमाणं सत्यस्य ज्ञानं मानवेषु प्रगतिम्, अनुकम्पं, सहजीविनां सुखदुःखेषु स्पन्दनसूक्ष्मतां च वर्धयति । मानवीयगुणाः यावदधिकाः भवेयुः तावत् प्रगतिः भवति निर्विघ्ना ।
एवम् अग्रेसरन् मानवः सहजीविनां प्रीतिविश्वासादीनि सम्पादयति । भगवतः आनन्दम् अनुभवति । विजयानां विजयः अयमेव !
"https://sa.wikiquote.org/w/index.php?title=प्रेता_जयता_नरः_॥&oldid=1811" इत्यस्माद् प्रतिप्राप्तम्