फलकम्:मुखपुटम् - सुभाषितम्

विकिसूक्तिः तः
मे २०२४
गुरुवासरः
१५:२० UTC
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।

तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ ९ ॥