सामग्री पर जाएँ

फलकम्:मुखपुटम् - सुभाषितम्

विकिसूक्तिः तः
फेब्रवरी २०२६
गुरुवासरः
१२
०९:५६ UTC
लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेः द्वादशवार्षिके सत्रे॥१॥

सुखासीनान अभ्यगच्छद ब्रह्मर्षीन संशितव्रतान। विनयावनतॊ भूत्वा कदा चित सूतनन्दनः॥२॥ तम आश्रमम् अनुप्राप्तं नैमिषारण्यवासिनाम्। चित्राः श्रोतुं कथाः तत्र परिवव्रुस्तपस्विनः॥३॥ अभिवाद्य मुनींस्तांस्तु सर्वान् एव कृताञ्जलिः। अपृच्छत्स तपॊवृद्धिं सद्भिश्चैवाभिनन्दितः॥४॥ अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु। निर्दिष्टमासनं भेजे विनयाल्लॊमहर्षणिः॥५॥ सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च। अथापृच्छद् ऋषिः तत्र कश्चित् प्रस्तावयन्कथाः॥६॥ कुत आगम्यते सौते क्व चायं विहृतस्तवया। कालः कमलपत्राक्ष शंसैतत्पृच्छतॊ मम॥७॥