सीमन्तिनीषु का शान्ता ? राजा कोऽभूत् गुणोत्तमः ? विदुषां का सदा वन्द्या ? अत्रैवोक्तं, न बुध्यते । स्त्रीषु शान्ता का ? गुणैः उत्तमः राजा कः ? पण्डितानाम् आदरपात्रः कः ? एतेषां प्रश्नानाम् उत्तरम् अत्रैव उक्तमस्ति, किन्तु न ज्ञायते ।
उत्तरम्