फलकम्:सुभाषितानि

विकिसूक्तिः तः

विद्याप्रशंसा[सम्पाद्यताम्]

न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनात् प्रधानम् ॥

विद्या ददाति विनयम्
विनयाद्याति पात्रताम् ।
पात्रात्वाद्धनमाप्नोति
धनाद्धर्मं ततः सुखम् ॥

आचार्यात् पादमादत्ते
पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः
पादं कालक्रमेण तु ॥

नभसो भूषणं चन्द्रो
नारीणां भूषणं पतिः ।
पृथिव्या भूषणं राजा
विद्या सर्वत्र भूषणम् ॥

उपदेशमाला[सम्पाद्यताम्]

प्राणमेवं परित्यज्य
मानमेवाभि रक्षतु ।
अनित्याश्चाध्रुवाः प्राणाः
मानमाचन्द्रतारकम् ॥

श्रूयतां धर्मसर्वस्वं
श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि
परेषां न समाचरेत् ॥

आयुषः खण्डमादाय
रविरस्तमयं गतः ।
अहन्यहनि बाधव्यं
किमेतत् सुकृतं कृतम् ॥

परोपकारप्रशंसा[सम्पाद्यताम्]

श्लोकार्धेन प्रवक्ष्यामि
यदुक्तं ग्रन्थकोटिषु ।
परोपकारः पुण्याय
पापाय परपीडनम् ॥

रविश्चन्द्रो धना वृक्षाः
नदी गावश्च सज्जनाः ।
एते परोपकाराय
भुवि दैवेन निर्मिताः ॥

परोपकाराय फलन्ति वृक्षः
परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः
परोपकारार्थमिदं शरीरम् ॥

"https://sa.wikiquote.org/w/index.php?title=फलकम्:सुभाषितानि&oldid=5120" इत्यस्माद् प्रतिप्राप्तम्