बकबन्धनन्यायः

विकिसूक्तिः तः

एकः जनः एकदा एकं बकं बन्धुम् इष्टवान् । आदौ सः एकं बकं दृष्द्वा दूरात् तस्य शिरसः उपरि नवनीतस्य गोलं क्षिप्तवान् । कञ्चित्कालानन्तरं नवनीतं द्रुतं भूत्वा बकस्य नयनयोः उपरि आगतम् । तेन वकः किमपि द्राष्टुं न शक्तः । तदा एषः गत्वा बकं गृहीतवान् । एवं कार्यस्य सिद्ध्यै विचित्रः उपायः चिन्तितः चेत् बकबन्धनवत् कृतमिति वदन्ति ।

"https://sa.wikiquote.org/w/index.php?title=बकबन्धनन्यायः&oldid=10560" इत्यस्माद् प्रतिप्राप्तम्