बहूनाम् अल्पसाराणां...

विकिसूक्तिः तः

सुभाषितम्

बहूनाम् अल्पसाराणां संहतिः कार्यसाधिका ।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः ॥




तात्पर्यम्

स्वल्पशक्तियुताः बहु जनाः सङ्घटिताः भवन्ति चेत् महत्कार्यं साधयितुम् अर्हन्ति । तृणानि शक्तिरहितानि । किन्तु तानि रज्जुरूपेण संयुक्ताः चेत् मत्तान् गजान् अपि बन्धुम् अर्हन्ति ।

"https://sa.wikiquote.org/w/index.php?title=बहूनाम्_अल्पसाराणां...&oldid=15959" इत्यस्माद् प्रतिप्राप्तम्