बह्वनुग्रहन्यायः

विकिसूक्तिः तः

बहवो जनाः एकत्र समागताश्चेत् सर्वेषां सामूहिकशक्तेः महान् प्रभावो भवति इति भावः ।

यथा – बहूनामप्यसाराणां मेलनं कर्मसाधकम् ।

तृणैः संपाद्यते रज्जुर्यया नागोऽपि बध्यते ॥ (सुभाषितम्)

"https://sa.wikiquote.org/w/index.php?title=बह्वनुग्रहन्यायः&oldid=10580" इत्यस्माद् प्रतिप्राप्तम्