बाबासाहेब आप्टे
दिखावट
बाबासाहेब आप्टे राष्ट्रियस्वयंसेवकसङ्घस्य आरम्भकालीनेषु प्रचारकेषु अन्यतमः ।
अमृतवचनानि
[सम्पाद्यताम्]- आधारशिला: अनेकानि वर्षाणि भवनस्य भारं वहन्ति । तथापि ता: स्वस्थानं न परित्यजन्ति, न वा भग्ना: भवन्ति । उपरि आगमनस्य इच्छाम् अपि न वहन्ति । स्वस्य नाम ज्ञापयितुम् इच्छाम् अपि न प्रकटयन्ति । एतादृशा: निस्स्वार्था:, दृढा:, पवित्रा:, विशुद्धाचरणवन्त:, अखण्डाविचलकर्मशीला: प्रेरणास्रोतोभूता: कार्यकर्तार: अद्य आवश्यका: ।
- हिन्दुसमाजसम्बद्धं तादृशं सङ्घटनं निर्मातव्यं येन समग्रे समाजे सम्यक् कार्यचेतना जागृयात् । यत्र हिन्दव: अल्पसंख्याका:, यत्र च ते बहुसंख्याका:, तदुभयत्रापि समानरूपं सङ्घटनं निर्मातव्यम् । हिन्दुसमाजे एकतत्त्व-चेतना जागरणीया अस्ति । नागरिक:, ग्रामीण:, सुशिक्षित:, दरिद्र:, धनवान् इत्यादीनां सर्वविधानाम् अपि हिन्दूनां सङ्घटनं करणीयम् ।
- तस्मिन् काले हिन्दुषु कश्चन दोष: आसीत् । तेषां हृदये स्वाभिमान: बलं च आसीत्, अन्यविधा: गुणा: अपि आसन्, किन्तु सर्वेषां हृदयम् अभिन्नम् न आसीत् । सर्वै: एकताबद्धतया स्थातव्यम् इति भावना न आसीत् । यदि तस्मिन् काले आसेतुहिमाचलं जागरणतरङ्गा: उत्पन्ना: स्यु: तर्हि इतिहासस्य मार्ग: एव परिवृत्त: अभविष्यत् ।
- अस्माकं कार्यस्य लक्ष्यस्य अन्तिमं स्वरूपम् - अस्मदीयस्य समाजस्य पूर्णसङ्घटितावस्था । ये शान्त्या अविरतं प्रयासं कुर्वन्ति तादृशा: शतश: सहस्रश: च समर्पितजीवना: एतस्य लक्ष्यस्य प्राप्तये आवश्यका: । विपरीतपरिस्थितिषु अपि, प्रलोभनेषु सत्सु अपि ये स्थिरतया कार्यं कुर्यु: तादृशानां सबलानां धैर्यवतां हृदयानाम् आवश्यकता अस्ति । एतादृशस्य स्फूर्तजीवनस्य निर्माणाय सङ्घ: दैनन्दिनसंस्कारविषये अधिकम् अवधानं ददाति ।
- यत्र बाण: लग्न: भवेत् तत्र मारणं किं धनुष्मत्ताया: लक्षणम् ? आदौ स्थानं निश्चित्य तत: तत्रैव लक्ष्यं भेद्यते यत् तत् एव धनुष्मत्ता नाम । एवम् आदौ सङ्कल्प: तत: प्रतिज्ञा च करणीया इत्येतां परम्परां वयं व्यक्तिगते सामूहिके च जीवने विस्मृतवन्त: आस्म । तं पुनरपि स्मारयन्तं विधिं डाक्टर्-हेडगेवारवर्य: अस्मभ्यं प्रदत्तवान् अस्ति । प्रतिज्ञा न बन्धनाय, अपि तु आधाराय । (सङ्घचिन्तनम्, बाबासाहेब-आप्टे, पृ - 23)
- समाजे एकात्मतां प्राप्तुं या भूमिका निर्वोढव्या सा चरितार्था करणीया इत्येतदेव प्रतिज्ञाया: लक्ष्यम् । सर्वासु दिक्षु निराशतामये वातावरणे सत्यपि अस्माभि: समर्थस्य, सङ्घटितस्य, समग्रस्य समाजस्य मार्गदर्शनं कर्तुं क्षमस्य हिन्दुराष्ट्रस्य पुनर्निर्माणं करणीयम् अस्ति । कर्तव्यविमुखताप्रसङ्गे आपतिते अपि, आत्मन: समत्वसम्पादनाय प्रतिज्ञा एव आश्रय: अस्माकम् । यदि तत् कार्यान्वितं कर्तुं योग्येन प्रकारेण वयं प्रयत्नशीला: भवेम तर्हि हिन्दुराष्ट्रस्य भाग्यसूर्य: अचिरात् एव दिगन्ते उदित: भवेत् । (सङ्घ चिन्तन, जागृति प्रकाशन, पृ.26)