बालादपि ग्रहीतव्यं...

विकिसूक्तिः तः

सुभाषितम्

बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥

- हितोपदेश, सुहृद्भेद-७७

बालादपि ग्रहीतव्यं युक्तमुक्तं मनीषिभिः ।
रवेरविषये किं न प्रदीपस्य प्रकाशनम् ॥

पदच्छेदः

बालात्, अपि, ग्रहीतव्यं, युक्तम्, उक्तं, मनीषिभिः, रवेः, अविषये, किं, न, प्रदीपस्य, प्रकाशनम् ॥


तात्पर्यम्

बालानां वचनं योग्यं यदि स्यात् तर्हि पण्डितैः अपि अङ्गीकरणीयमेव । सूर्यस्य प्रकाशः यत्र न प्रविशेत् तस्मिन् स्थले दीपः प्रकाशं किं न दद्यात् ?


आङ्ग्लार्थः

Sensible words, if coming even from a child, should be received by mankind. Doesn't a lamp illuminate where the sun cannot?

"https://sa.wikiquote.org/w/index.php?title=बालादपि_ग्रहीतव्यं...&oldid=17816" इत्यस्माद् प्रतिप्राप्तम्